पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । स्थितैः प्रतीहार पुरुपैर निवार्यमाणोऽपि राजकुल इव राजपुत्रो बाह्याङ्गण एव तुरगादवततार। द्वारदेशावस्थापिततुरङ्गश्च वैशम्पायनमवलम्ब्य पुरःप्रधावितैः समुत्सारित परिजनैस्तत्प्रतीहा- रमण्डलैरुपदिश्यमानमार्गस्तथैव चलितमुकुटकोटिभिर्नरेन्द्रवृन्दैः सेवासमुपस्थितैरुत्थायो- स्थाय प्रणम्यमानस्थैव च प्रचण्डप्रतीहारहुंकारभयमूकी भवत्परिजनानि प्रचलितवेत्रलता- चकितसामन्तचक्र चरणशतचालेतवसुंधराणि कक्षान्तराणि निरीक्ष्यमाणस्तथैव च नवनवसु- धावदातप्रासादनिरन्तरं द्वितीयमिव राजकुलं शुकनासभवनं विवेश | प्रविश्य चानेकनरे- न्द्रसहस्रमध्योपैस्थितमपरमिव पितरमुपदर्शित विनयो दूरावनतेन मौलिना शुकनासं ववन्दे । शुकनासस्तं संसंभ्रमं समुत्थाय नुपूर्येणोत्थितराजलोक: सादरमभिमुखदत्ता विरलपद: ग्रह- र्पविस्फारितविलोचनागतानन्दजलकण: समं वैशम्पायनेन प्रेम्णा गाढमालिलिङ्ग | आलि- ङ्गितोन्मुक्तश्च सादरोपनीतमपहाय रत्नासनमवनावेव राजपुत्रः समुपाविशत् । तदनु च वैशम्पायन: । उपविष्टे च राजपुत्रे शुकनासवर्जमन्यदखिलमवनिपालचक्रमुज्झितनिजासन- मवनितलमभजत | स्थित्वा च तूष्णीं सैंणमिव शुकनासः समुद्रतप्रीतिपुलकैरङ्गैरावेद्यमान- कैरनिवार्यमाणोऽप्यनिषेध्यमानोऽपि राजकुल इच बाह्याङ्गण एव राजपुत्रस्तुरगादश्वादवततारोत्तीर्णवान् । द्वारेति । द्वारदेशे प्रतोल्यामवस्थापितस्तुरङ्गो येन स वैशम्पायनमवलव्यालम्ब्य पुरः प्रभावितैरग्रतः शीघ्रप्रचलितैः | समुत्सारितो दूरीकृतः परिजनो यैः । तथैव पूर्ववत् | प्रतीहारमण्डलैरुपदिश्यमान उपदेश- विपयीक्रियमाणो मार्गः पन्था यस्य स तथा । तथैव पूर्ववत् | चलिताः कम्पिता मुकुटानां कोटयो येषां तैः नरेन्द्रवृन्दै राजसमूहैः सेवार्थं सपर्यार्थं समुपस्थितैरागतैरुत्थायोत्थायेत्युत्थानमुत्थानं कृत्वेत्यर्थः । प्रणम्यमानो नमस्क्रियमाणः । तथैव पूर्ववत् । प्रचण्डा ये प्रतीहारा द्वारपालकास्तेषां हुंकारा हुंकृतयस्तेभ्यो भयं भी तिस्तेन मूकीभवन्मौनतां समाश्रयन्परिजनो येषु तानि | प्रचलितेति । प्रचलिना इतस्ततो विक्षिप्ता या वेत्रलता वेतसयष्टयस्तस्याश्चकितं शतं यत्सामन्तचक्रं तस्य चरणशतेन पादशतेन चलिता कम्पिता वसुंधरा पृथ्वी येषु तान्येवंविधानि कक्षान्तराणि गृहप्रदेशानि । 'कक्षा प्रकोष्ठे केदारे काव्यां मध्येभवन्धने' इति विश्वः । निरीक्ष्यमाणो विलोक्यमानः | नवेति । नवनवा नवीनाः सुधावदाताः सुधयावदाता उज्ज्वला ये प्रा- सादास्तैर्निरन्तरं व्याप्तं द्वितीयमिव राजकुलं शुकनासभवनं विवेश प्रविष्टवान् । प्रविश्य च प्रवेशं कृत्वा । अने- केति । अनेकेषां नरेन्द्राणां यत्सहस्रं तन्मध्य उपस्थितमपरमित्रान्यमित्र पितरं जनकम् । उपेति । उपदार्शतो विनयो येन स तथा दूराद्दविष्टादवनतेन मौलिना शिरसा शुकनासं ववन्दे नमश्चके | शुकनासस्तं चन्द्रापीडं गाढं यथा स्यात्तथालिलिङ्गपहनं चक्रे | ससंभ्रमं सवेगं समुत्थायोत्थानं कृत्वा वैशम्पायनेन स्वसुतेन समं सार्व॑म् । केन । प्रेम्णा स्नेहेन । अथ शुकनासं विशेषयन्नाह — आन्विति । आनुपूर्व्यानुक्रमेणोत्थितो रा जलोको यस्मात् । आदरेण सहवर्तमानं सादरं यथा स्यात्तथा । अभिमुखं संमुखं दत्तान्यविरलान्यनवच्छिन्नानि zim anar frà A A7