पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः | १८३ तावनतमात्ममुखप्रतिबिम्बगर्भे विकचकमलकृतकर्णपल्लवावतंस इव कपोले पर्यचुम्वदेनम् । एवं च तत्रापि नातिचिरमेव स्थित्वा क्रमेण सर्वान्तःपुराणि दर्शनेनानन्दयामास । निर्गत्य च राजकुलद्वारा बहिःस्थितमिन्द्रायुधमारुह्य तथैव तेन राजपुत्रलोकेनानुगम्यमानः शुक- नासं द्रष्टुमयासीत् । यामावस्थित विविधैगजघटा संकटम्, अनेकतुरङ्गसहस्र संबाधम्, अप- रिमितजनसमूहसहस्र संमर्दसंकुलम्, एकदेशोपविष्ठैः सहस्रशो निबद्धचक्रवार नेक कार्याग- तैदर्शनोत्सुकैः समन्ततो विविधशास्त्राञ्जनोन्मीलितप्रतिभैरँवरच्छद्मना विनयानुरागिभिर्ध- र्मपटैरिवावगुण्ठितैः शाक्यमुनिशासनपथधौरेयै रक्तपटै: पाशुपतैर्द्विजैश्च दिवानिशमा सेव्य- मानम्, अभ्यन्तरप्रविष्टानां च सामन्तानां जघनोपे विष्टपुरुषोत्सङ्गाय स्थित द्विगुणकुथाभिर- तिचिरावस्थाननिर्वेदप्रसुप्ताधोरणाभिरपर्याणाभिः सपर्याणाभिश्च निश्चलावस्थानप्रचलायि- ताभिः शतसहस्रशः करिणीभिराकीर्ण शुकनासगृहद्वारमासाद्य सत्वरप्रभावितद्वरदेशाव- त एनं कुमारं पर्यचुम्बच्चुम्बनं कृतवती । कीदृशम् । लज्जाम्मितेनावनतं नम्रीभूतम् । कम्मिन् । कपोले गल्लापर- भागे । कीदृशे । आत्मनो मातुर्मुखप्रतिविम्बो गर्भे यस्मिन् । मुखस्य कमलसाम्यादाह — विकचेति । विकचै० र्विकस्वरैः कमलैः कृतो विहितः कर्णपलवावतंसो यस्मिन् | एवं चेति । पूर्वोक्तप्रकारेण तत्रापि मातुः समीपेऽपि नातिचिरं नातिचिरकालमेव स्थित्वावस्थानं कृत्वा क्रमेण परिपाट्या सर्वान्तःपुराणि समग्राण्य वरोधानि दर्शनेनानन्दयामास प्रमोदयामास । राजकुलद्वारा प्रतोलीमार्गेण निर्गत्य वहिरागस बहिः- स्थितमिन्द्रायुधमश्वमारुह्य तथैव पूर्वोक्तप्रकारेण तेन पूर्वोक्तेन राजपुत्रलोकेनानुगम्यमानः शुकनासं मन्त्रिणं द्र विलोकयितुम यासी दिव्यन्वयः | या प्रापणे लुङि रूपम् । ततश्च शुकनासगृहद्वारमासाद्य शुकनासभवनं विवेशेयंन्वयः । अथ गृहद्वारं विशेषयन्नाह – यामेति । यामावस्थिताश्चतुक्रिकायां स्थिता विविधानां गजानां घटा समूहस्तया संकटं सव्या ( संवा ) धं प्रवेष्टुमशक्यम् | अनेके ये तुरङ्गास्तुरङ्गमास्तेपां सहस्रं तेन सवाधं बाधासहितम् । अपरीति । अपरिमिता असंख्या ये जना मनुष्यास्तेषां समूहा भिन्नभिन्नजाती- यनरगणास्तेषां सहस्राणि तेषां संमर्दोऽन्योन्याघातस्तेन संकुलम् | एकदेश एकान्त उपविष्टैः स्थितैः स- हस्रशो निवद्धानि चक्रवालानि यैः । अनेकानि यानि कार्याणि तदर्थं आगतैः प्राप्तेः । दर्शनार्थमवलो- कनार्थमुत्सुकैरुतकण्टितैः । समेति । समन्ततः सर्वतो विविधानि यानि शास्त्राणि तान्येवाञ्जनं नेत्रौषधं तेनोन्मलितानि विकाशं प्रापितानि प्रतिभानि चक्षूंपि येषां तैः । अवरेति । अवरच्छमना सेवक- मिषेण विनयेनानुरागो विद्यते येषां तैः । तद्गुणानुरागेण विनयादेव सेवकीभूनै रित्यर्थः । धर्मपटैरिवावगुण्टि- तैराच्छादितैः शाक्यमुनीनामर्कबान्धवतपस्विनां यच्छासनमाज्ञा तस्य पन्थाः मार्गरतत्र धौरेयैथुरंधरैस्तथा रक्तप रक्ताम्बरैः पाशुपतैः शैवैर्द्विजैर्वाह्मणैश्च दिवानिश महर्निशमा सेव्यमानमुपास्यमानम् | अभ्यन्तर प्रविष्टानां मध्यगतानां सामन्तानां स्वदेशपार्श्ववर्तिराज्ञां च शतसहस्रशः करिणीभिर्धेनुकाभिराकीर्ण व्याप्तम् । sase aatuar स्थिता से सास्तीयाः प्र ।