पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरा । चिन्नाकाङ्क्षणीयम्, संध्यासमयमिव दृश्यमानचन्द्रापीडोदयम्, नारायणवक्षःस्थलमित्र श्रीर- लप्रभाभासित दिगन्तम्, बलभद्रमिव कादम्बरीरस विशेषवर्णनाकुलमैतिम्, ब्राह्मणमिव प द्मासनोपदेशदर्शितभूमण्डलम्, स्कन्धमिव शिखिक्रीडारम्भचञ्चलम्, कुलाङ्गना प्रचार मिव सर्वदोपजातशङ्कम्, वेश्याजनमिवोपचारचतुरम्, दुर्जन मिवापगतपरलोकभयम्, अन्त्यजज- नमिवागम्य विषयाभिलाषम्, अगम्यविषयासक्तमपि प्रशंसनीयम्, अन्तकभटगणमित्र कृ. ताकृतसुकृतविचारनिपुणम्, सुकृतमिवादिमध्यावसान कल्याणकरम्, वासरारम्भमिव पैद्म- रागारुणी क्रियमाण निशान्तम्, दिव्यमुनिगणमिव कलापिसनाथश्वेतकेतुशोभितम्, भारतस- मरमिव कृतवर्मबाणचक्रसंभारभीषणम्, पातालमिव महाकै चुक्यध्यासितम्, वर्षपर्वतसमू- हमिवान्तःस्थितपरिमित शृंहेिमकूटम् महाद्वारमपि दुष्प्रवेशम् अवन्तिविषयगतमपि १ , १ , FB , प्रायाः, तेषामावेदकं कथकम् | पक्षेऽन्येन कविना चिन्तितो विचारितो यः स्वभावाभिप्रायः सहजोऽभिप्रायः । तात्पर्यविषयीभूतोऽर्थ इति यावत् । तस्यावेदकं ज्ञापकम् । महानया वृहत्तटिन्या प्रवाह ओघस्तमिव सर्व यहु- रितं दुश्चरितं तस्यापहरम् | पक्षे सर्व दुरितं पापम् | धनं द्रव्यं तद्वदिव न कस्यचिदपि नाकाङ्क्षणीयं नाभिलप णीयम् । अपि तु सर्वस्यापि स्पृहणीयमित्यर्थः । इत्यभङ्गलेषः । संध्यायाः सायंकालस्य समयः क्षणस्त- मिव दृश्यमानः प्रेक्ष्यमाणश्चन्द्रापीडस्य सुतस्यो इयोऽभ्युनतिर्यस्मिन् । पक्षे चन्द्रापीड ईश्वरः । सर्वदा संध्यायां नृत्यविधानादिति भावः । नारायणो विष्णुस्तस्य वक्षःस्थलं भुजान्तरं तद्वदिव श्रीः शोभा तथा युक्तानि रानि तेषां प्रभाः कान्तयस्ताभिर्भासितं प्रकाशितं दिगन्तं यस्मिन् | पक्षे श्रीलक्ष्मीः रत्नं कांस्तुभम् । शेषं पूर्व- वत् । बलभद्रो रामस्तमिव कादम्बरी वक्ष्यमाणा स्त्री तरया रसविशेषवर्णन आकुला मतिर्यस्मिन् | पक्ष काद- म्वरी कापिशायनम् । ब्राह्मणमिव द्विजमिव पद्मासनोपदेशाय दर्शितं भूमण्डलं यस्मिन् | पक्षे पद्मासनो ब्रह्मा तस्योपदेशो वेदस्तेन दर्शितमन्येभ्यः प्रकाशितं भूमण्डलं येन स तम् । स्कन्दः स्वामी तमिव शिखी मयूरस्तस्य यः क्रीडारम्भस्तेन चञ्चलं चटुलमियभङ्गश्लेपः । कुलाङ्गनायाः कुलवध्वाः प्रचारः संचरणं तमिव सर्व ददातीति सर्वदः परमेश्वरस्तस्मादुपजाता शङ्का भयं यस्मिन् । पक्षे सर्वदा सर्वकालम् | वेश्याजनो वाराङ्गना- जनस्तमिवोपचारः सेवा तत्र चतुरमित्यभङ्गश्लेपः | दुर्जनः खलस्तमिवापगताः परे लोकाः शत्रवस्तेभ्यो भयं यस्मिन् । पक्षेपरलोको भवान्तरम् । अन्त्यजजनो दिवाकीर्तिजनस्तमिवागम्यः परैर्याय एवविधो विषयो देशस्तस्याभिलाषो यस्मिन् | पक्षेऽगम्यानां विषयाभिलाषो यस्मिन्निति बहुव्रीहिः । अगम्यविषयासक्तमपि प्रशंसनीयमिति विरोधः । तत्परिहारस्त्वगम्यः परैरग्राह्यो विषयो देशस्तदासक्तमित्यर्थात् | अन्तको यमस्तस्य भटगण: सुभटसमूहस्तमिव कृताकृतं यत्सुकृतं शोभनं कृत्यं तस्य यो विचारस्तत्र निपुणं चतुरम् । पक्षे...... । सुकृतं पुण्यं तद्वदिवादिमध्यावसानेषु कल्याणकरं शुभकारकमित्यभङ्गलेषः । वासरस्य दिवसस्यारम्भ- स्तमिव पद्मरागै रक्तमणिभिररुणी क्रियमाणं रक्तीक्रियमाणं निशान्तं गृहं यत्र तत् । 'धामागारं निशान्तम्' इति कोशः । पक्षे पद्मानां रागैररुणीक्रियमाणो निशान्तो रात्रिप्रान्तो यस्मिन् | दिव्यो मुनिगणो वसिष्ठा- free fuो यस्तैः सनाथा: सहता येतवः सितध्वजस्तैः शोभितम पक्षे कलापी ......