पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । १७६ ७ लपेरिपालितम् व्याकरणमिव प्रथममध्यमोत्तमपुरुपविभक्तिस्थितानेकादेशकारकाख्यात- संप्रदानक्रियाव्ययप्रपञ्चसुस्थितम्, उदधिमिव भैयान्तःप्रविष्टसपक्षभूभृत्सहस्र संकुलम्, उ पानिरुद्धसमागममिव चित्रलेखादर्शित विचित्रसकल त्रिभुवनाकारम्, बलियज्ञ मिव पुराण- पुरुषवामनाधिष्ठिताभ्यन्तरम् शुक्लपक्षप्रदोषमिव विततशशिकिरणकलापर्धवलाम्बरविता- नम्, नरवाहनदन्तकथेवान्तः संवर्धित प्रियदर्शनराजदारिकागन्धर्वदत्तोत्कण्ठम्, महातीर्थमित्र सद्योऽनेक पुरुष प्राप्ताभिषेकफलम्, प्राग्वंशमिव नानासत्रपात्रसंकुलम्, निशासमयमिवानेकन- क्षत्रमालालंकृतम, प्रभातसमयमिव पूर्व दिग्भागरागानुमेय मित्रोदयम, गन्धिक भवनमिव ऽनन्तः परमेश्वरस्तस्य गीतं स्तुतिस्तदा कर्णनेनानन्दितो नरोऽर्जुनो यस्मिन् | यदुवंशमिच यदुर्नृपतिस्तस्य वंशः संतानपरंपरा तमिव कुलक्रमागताः परंपरायाताः शूराः शौर्यगुणयुक्ताः, भीमाः क्रूराकृतयः, पुरुषोत्तमाः पुरु- षेषु मुख्याः, तेषां वलेन सैन्येन परिपालितं रक्षितम् । रजन्यां चतुष्किका प्रदानेन तद्रक्षां कुर्वन्तीति भावः । पक्षे शरो नाम विष्णोः पितामहः, भीमो नाम कश्चित् पुरुषोत्तमो विष्णुः, बलो वलदेवः एभिः परिपालितं लालितम् | जरासिन्धोरिति शेषः | व्याकरणं शब्दशास्त्रं तद्वदिवायं प्रथम आद्यः, अयं म ध्यमोऽनुत्कृष्टाधमः, अयं चोत्तमः सर्वोत्कृष्टः, एवंविधा या पुरुषविभक्तिस्तस्यां स्थिता येऽनेकआदेशकारकाः आज्ञाकारकास्तै राख्याता प्रतिपादिता सम्यक्प्रकारेण या संप्रदान किया तस्यां यो व्ययस्तस्य प्रपञ्चो विस्तार- स्तत्र सुस्थितम् । सुखेनावस्थितमित्यर्थः । पक्षे प्रथमपुरुषो मध्यमपुरुष उत्तमपुरुषश्चेति संज्ञात्रयं पाणिनिना प्रपञ्चितम् । विभक्तयश्च स्वादयस्तासु स्थिता आदेशास्तिसृचतसृप्रभृतयः, कारकाणि कर्तादीन्याख्यातानि नव दश वा, संप्रदानं चतुर्थीकारकम्, क्रिया भ्वादिः, अव्ययान्युच्चरित्यादीनि तेषां प्रपञ्चो विस्तारः सुस्थितो य- स्मिन् । उदधिः समुद्रस्तद्वदिव भयाद्भीतेरन्तः प्रविष्टं मध्ये समागतं यत्सपक्षाणां परिच्छदोपेतानां भूभृतां राज्ञां सहस्रं तेन संकुलम् | पक्षे सपक्षा: पक्षयुक्ता भूभृतः पर्वताः । शेपं पूर्ववत् | उषेति । उपा वाणासुरपुत्री रुद्धः प्रद्युम्नतनयः तयोः समागमः संवन्धस्तदिव | तस्याः सखीभूता चित्रलेखा तयानिरुद्धोत्कण्ठित। षां प्रत्यनिरुद्धज्ञानाय चित्रे त्रिभुवनमालिख्य दर्शित मिति पौराणिकी कथा | तामधिकृत्याह – चित्रेति । चि त्रलेखाभिरालेख्यपतिभिर्दर्शितः प्रकाशितो विचित्रो नानाविधः सकल: सममस्त्रिभुवनस्य त्रिविष्टपस्याकार आकृतिर्येन तत् । पक्षे चित्रलेखा सखी | शेषं पूर्ववत् । वलिर्नृपस्तेन कृतो यज्ञो यागस्तमिव पुराणपुरुपै रृद्धपुरुषैर्वा मनैश्चाधिष्ठितमाश्रितमभ्यन्तरं मध्यभागो यस्य तत् । पक्षे पुराणपुरुषो यो वामनो गृहीतवामनाव- तारः । शेषं पूर्ववत् । शुक्लेति । शुक्लो यः पक्षस्तस्य प्रदोषो यामिनीमुखं तद्वदिव | विततो विस्तीर्णो यः शशिकिर- णकलापस्तद्वद्धवलं यदम्बरं वस्त्रं तस्य वितानमुल्लोचो यस्मिन् । पक्षे शशि किरणकलापेन धवलाम्बरमेव वितानं यस्मिन्निति विग्रहः । नरवाहनो राजा तस्य दन्तकथा लोकप्रवृत्तिस्तद्वदिवान्तः संवर्धिता अन्तःपुरे वृद्धि प्राप्ता याः प्रियदर्शना इष्टावलोकना राजदारा एव राजदारिकाः स्वार्थे कः । 'काम्यते ( च ) ' इति पूर्वस्येकारः | ताभिर्गन्धर्वाणां देवगायनानां दत्तोत्कण्ठा यस्मिन् । पक्षेऽन्तः संवर्धिता प्रियदर्शनानाम्नी राजदारिका नरवाह- a s