पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ कादम्बरी । चित्रफलके भूमिपालप्रतिबिम्बमानता काव्यगोष्ठीमातन्त्रता परिहासकथां विन्दता बिन्दु- मत चिन्तयता प्रहेलिकां भावयता नरपतिकृतकाव्यसुभाषितानि पठता द्विपदीं गृह्णता कविगुणानुत्किरता पत्रभङ्गानालपता वारविलासिनीजनमाकर्णयता वैतालिकगीतमनेकसह- संख्येन धवलोणीपपटालिटविकट किरीट संकटशिरसा सनिर्झरशिखरलग्नबालातपमण्ड- लेनेव कुलपर्वत चक्रवालेन मूर्धाभिषिक्तेन सामन्तलोकेनाधिष्ठितम् आस्थानोत्थितभूमिपा- लसंवर्तितानां च कुथानां रत्नासनानां च राशिभिरनेकवर्णैरिन्द्रायुधपु जैरिव विराजितसभा- पर्यन्तम् अॅमलभूमिसंक्रान्तमुखनिवह प्रतिविम्बतया विकचकमलपुष्पप्रकरमिव संपाद्यता गतिवशरणितनूपुरपरिहार्यरशनास्वनमुखरेण स्कन्धावसक्तकनकदण्डचामरेण निर्गच्छता प्रविशता चानवरतं वारविलासिनीज ने नाकुलितम्, एकदेशनिषण्णचामीकरशङ्खला संयतेश्व- गणम इतस्ततः प्रचलित परिचिंता मितकस्तूरिकाकुरङ्ग परिमलवासित दिउमुखम् अनेककु- 9 9 वन्ये । तस्य व्यापारम् । आस्फालयता वादयता परिवादिनी वीणाम् | चित्रफलक आलेख्य भूमिपालो राजा तस्य प्रतिविम्बं प्रतिमामालिखता लिपीकुर्वता | काव्येति | काव्यगोष्टीमाबनता | काव्यश्रवणार्थं स्व- स्योपवेशनेन जनयन्धं कुर्वतेत्यर्थः । परिहासकथामुपहास्य कारिवचनरचनामातन्वता विस्तारयता | बिन्दुमत विचित्रां लिपि विन्दता प्राप्नुवता । प्रहेलिकां पूर्वोक्तां चिन्तयता ध्यायता | नरपतिना राज्ञा कृतानि विर- चितानि यानि काव्यमुभाषितानि काव्यसूक्तानितानि भावयता चेतति भावनां कुर्वता | द्विपदीं पदद्वयात्मिकां पटता पाठं कुर्वता | कविगुणानवीनकाव्यकर्तॄणां गुणांस्तत्कालकाव्यकरणादिरूपान्गृह्णता ग्रहणं कुर्वता पत्राणि केतकी संवन्धीनि तेषां भङ्गान्रचनाविशेषानुत्किरतोत्कीर्य कुर्वता | वारविलासिनीजनं वारयोषि- जनमालापयता संभापयता वैतालिका बोधिजनाः सुभाषितपाठका वन्दिनो वा तेषां गीतं गानमाकर्ण- यता शृण्वता । अनेकेति । अनेकानि | सहस्राणि संख्या परिमाणं यस्य स तेन | धचलेति । धवलः तो य उगीपपदो सूर्यवेटनपटस्तेनालिष्टान्यालिङ्गितानि विकटानि विपुलानि किरीटानि कोटीराणि तैः संकटं संकीर्ण शिरो यस्य स तेन । उष्णीपस्य श्रुतत्वात्किरीटस्य मणिप्रभया रक्तत्वाच वेतरक्तत्वसाम्यादुत्त्रे- क्षामाह - सेति । [ सनिर्झरं ] निर्झरें: सहवर्तमानं यच्छिखरं शृङ्गं तत्र लमं वालातपस्य मण्डलं यस्मिन्नेवं- भूतेन कुलपर्वतचक्रवाळेनैवेशेन मूर्धाभिषिक्तेन कृतपत्राभिषेकेण सामन्तलोकेन स्वदेशसमीपवर्तिराजसमू- हेनाधिष्टितमिति प्रागुक्तमेव | आस्थानेति | आस्थानादुपवेशनस्थलादुत्थितो यो भूमिपालो नृपतिस्तस्मा- त्संवर्तितानां समूहैरिवेन्द्रायुधपुअरिवेन्द्रधनुः समूहैरिव विराजितः शोभितः सभापर्यन्तः संसत्प्रान्तो यस्य तत् । पुनः कीदृशम् | अनवरतं निरन्तरं वारविलासिनीनां जनेनागच्छता निर्गच्छता चाकुलितं व्याकुलीभूतम् । अथ च वारविलासिनीजनं विशेषयन्नाह --अमलेति । अमला निर्मला भूमिस्तस्यां संक्रान्तो यो मुखनिवहस्तस्य प्रतिबिम्बस्तस्य भावस्तत्ता तथा | तस्य विकाससौगन्ध्यादिगुणवत्त्वादुत्प्रेक्षते — विकचेति | विकचो विकस्वरः ।