पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । अधिगतसकल- रसरसलुलितलाजकब लैर्भूपालवल्लभैर्मन्दुरागतैस्तुरङ्गमैरुद्भासितम्, अधिकरणमण्डपगतैया- र्यवेषैरत्युच्चवेत्रासनोपविष्ठैर्धर्ममयैरिव धर्माधिकारिभिर्महापुरुषैरधिष्ठितम प्रै| मनगरनामभिरेकभवन मिव जगदखिलमालोकयद्भिरालिखितसकलभुषनव्यापारतया धर्म- राजनगरव्यतिकरमिव दर्शयद्भिरैधिकरणलेखकैरा लिख्यमानशासनसहस्रम्, अभ्यन्तराव. स्थितनरपति निर्गमैप्रतीक्षणपरेण च स्थानस्थानेषु बद्धमण्डलेन कनकमयार्धचन्द्रेतारागणश- बलचर्मफलकैर्निशासमयमिव दर्शयता स्फुरितनिशितकरवाल करप्ररोहकरालितातपेनैकश्रवण- पुटंघटितधवलदन्तपत्रेणोर्ध्वबद्वमौलिकलापेन धवलचन्दनस्थासक खचितभुजोरुदण्डेन ब द्धासिधेनुकेनान्ध्रद्र विडसिंहलप्रायेण सेवकजनेनास्थानमण्डपगतेन च यथोचितासनोपवि- ऐन प्रसारयता दुरोदरक्रीडामभ्यस्यताष्टापदव्यापारमास्फालयता परिवादिनीमालिखता १७१ मङ्गलगीतध्वनिस्तत्र दत्ता न्यस्ताः कर्णाः यैः । अन्तरिति । कपोलयोरन्तर्मध्ये धृता स्थापिता मधुरा मिष्टा सरसा रसोपेता लुलिता हस्तेन मर्दिता लाजा आर्द्रतण्डुलाः । 'लाजाः स्युरार्द्रतण्डुलाः' इति कोशः । तेषां कवला गुडेरका येषां तैः । भूपेति । भूपाला राजानतेषां वल्लभैः प्रीत्युत्पादकैर्मन्दुरागतैर्वाजिशालाप्राप्तैरेवं- विधैस्तुरङ्ग मैरवरुद्भासितं शोभितम् । अधीति | अधिक्रियते जनोऽस्मिन्नित्यधिकरणमण्डपस्तत्र गतैः । आर्यः प्रशस्यो वेषो नेपथ्यं येषां तैः । अत्युचं यद्वेत्रासनं तत्रोपविष्टैः स्थितैर्धर्ममयैरिव धर्मनिष्पन्नैरिव धर्माधिकारि भिर्महापुरुषैरधिष्ठितमाश्रितम् । पुनः कीदृशम् | यस्य यस्य कार्यस्य यदधिकरणं तस्मिन्ये लेखकास्तैरालि- ख्यमानं लिपीक्रियमाणं शासनसहस्रमाज्ञापत्राणां दशशतं यस्मिन् | अथ लेखकान्विशिष्टि - अधीति । अधिगतं ज्ञातं सकलग्रामनगराणां नामाभिधानं यैस्ते तथा तैः । एकभवनमिवैकगृहमिवाखिलं समग्र जगद्विष्ट. पमालोकयद्भिर्विलोकयद्भिः । आलिखितेति । आलिखितो लिपीकृतः सकलभुवनस्य त्रिविष्टपस्य यो व्यापारो व्यवहारस्तस्य भावस्तत्ता तया | धर्मराजो यमस्तस्य नगरं संयमनीति ख्यातं तस्माद्व्यतिकरमतिशयं दर्शय- द्भिः । एतेन चित्रगुप्तलिखितोत्कृष्ट लिपीकरणेन यमनगरापेक्षयाप्यत्र सातिशयत्वं सूचित मिति भावः । पुनः कीदृशम् । वक्ष्यमाणेन सेवकजनेनोत्पादिनाधिष्ठितमिति सर्वत्रान्वयः । अथ सेवकजनं विशिनष्टि - अभ्य न्तरेति । अभ्यन्तरे राजसमीपे येऽवस्थिता नरपतयो राजानस्तेपां निर्गमों बहिरागमनं तस्य प्रतीक्षणं प्रतीक्षा तत्र परेणासक्तेन । स्थानस्थानेषु स्थानानि च स्थानानि च स्थानस्थानानीति कर्मधारयस्तेषु बद्धं मण्डलं येन स तेन । कलकेति | कनकमयः सुवर्णनिष्पन्नो योऽर्थचन्द्रोऽर्धचन्द्रचित्रं तारागणश्च श्वेतविन्दु चित्रं ताभ्यां शवलानि कर्वुराणि चर्मफलकानि तैः । चन्द्रतारकनिमित्तवत्त्वादाह - निशेति । निशासमय- मिव रात्रिकालमिव दर्शयतान्येभ्यो ज्ञापयता | स्फुरितेति | स्फुरितं देदीप्यमानं निशितं तीक्ष्णं यत्करवालं खङ्गं तस्य ये कराः किरणास्तेषां प्ररोहा अनुरास्तैः करालितो दन्तुरित आतपो दिनकरालोको येन स तथा तेन | एकश्रवणपुट एककर्णपुढे घटितं संयोजितं धवलं दन्तपत्रं येन स तथा तेन | देशाचारोऽयं यदेककर्णे दन्तपत्रपरिधानम् । ऊर्ध्वं वद्धो नद्धो मौलिकलापः केशकलापो येन स तथा तेन | धवलेति | धवलं यच्च- । ।