पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी | १६६ सत्रमत्ते, निवारयात्मानम् । उज्झितधैर्ये, किं धावसि गुरुजनसमक्षम् | उल्लसत्स्वभा गेवमाकुलीभवसि | मुग्धे, निगृहस्व मदनज्वरजनितपुलकजालकम् । असाध्वाचरणे वमुत्ताम्यसि । बहुविकारे, अङ्गभङ्गवलनायासितमध्यभागा वृथा खिद्यसे | शून्य गयनान्निर्गतमपि नात्मानमवगच्छसि । कौतुकाविष्टे, विस्मृतासि निःश्वसितुम्, उ कल्परचित रंगसमागमसुखरसनिमीलितलोचने, समुन्मीलय लोचनयुगलम् अति राम । अनङ्गशरप्रहारमूच्छिते, रविकिरणनिवारणाय कुरु शिरस्युत्तरीयांशुकपल्लवम सतीव्रतग्रहगृहीते, द्रष्टव्यमपश्यन्ती बच्चयसि लोचनयुगलम् । अधन्ये, हतासि पर शनव्रतेन | प्रसीदोत्तिष्ठ सखि, पश्य रतिविरहितं साक्षादिव भगवन्तमगृहीत मकर करध्वजम् । अयमस्य सितातपत्रान्तरेण अलिकुलनीले शिरसि तिमिरशङ्कातिर्पा शशिकरकलापो मालतीकुसुमशेखरोऽभिलक्ष्यते । एतदस्य कर्णाभरणमरकतप्रभाश तमुपरचितविकचशिरीपकुसुमकर्णपूरमिव कपोलतलमाभाति । अयमस्य हारान्ति , पवित्रतां नयति प्रापयसि । हे रागासवमत्ते रागः प्रीतिः स एवासवः सीधु तेन मत्ते क्षीवे | निवाग्य वारणां कुरु | अतिरागवशान्मरणं भविष्यतीति भावः । हे उज्झितधैर्य व्यक्तसाहसे । गुरू गुरुजनाः पूज्यजनास्तेषां समक्षं प्रत्यक्षं किं धावसि प्रधावनं किं करोपि । हे उल्लसत्वभावे प्रवर्धम किमिति प्रश्न । एवममुना प्रकारेणाकुलीभवसि व्याकुलतां भजसे । हे मुग्धे ग्रथिले । मदनज्वरेण क जनितं यत्पुलकजालकं रोमाञ्चसमूहं निगृहख संवृतं कुरु | हे असाध्वाचरणे अशुभचरिते | कि स्वनि कथं ग्लानिं भजसि | हे बहुविकारे हे अनेक विकारवति । अङ्गानां भङ्गाः संस्थानविशेषास्ते संकोचस्तेनायासितः खिन्नो मध्यभागोऽवलग्नं यस्या एवंविधा त्वं वृथा मुधा खिद्यसे खेदं प्रा शन्थहृदयॆ शून्यचित्ते । स्वभवनान्निजगृहादात्मानं निर्गतमपि वहिरागतमपि नावगच्छसि न जान कौतुकाविटे हे कुतूहलगृहीते | निःश्वसितुं निश्वासं ग्रहीतुं विस्मृतासि । कौतुकेनैवं व्याक्षित पिन गृहासीति भावः । अन्तःसंकल्पेन मनोध्यवसायेन रचितो यो रतसमागमो मैथुन सत्सुखं गानं तस्य यो रस आन्तरप्रीतिस्तेन निमीलिते मुद्रिते लोचने यस्यास्तस्याः संबोधनम् । समुन्मीलय विकासय । अयं चन्द्रापीडोऽतिक्रमति गच्छति । हे अनङ्गशरप्रहारमूच्छिते हे कामक निश्चेनने । रविकिरणनिवारणाय सूर्यतापापनोदायोत्तरीयांशुकपलवं शिरसि मस्तके कुरु विधेहि कोमलामन्त्रणे । हे सतीव्रतग्रहगृहीते सतीव्रतं पातिव्रत्यं तलक्षणो यो ग्रहस्तेन गृहीते । प्रथिले द्रष्टव्यं द्रष्टुं योग्यमपि चन्द्रापीडमपश्यन्त्यनवलोकयन्ती लोचनयुगलं वच्चयसि वञ्चनां करोषिं । है अभाग्ये परपुरुषाणां यदर्शनत्रतं तेन हतासि पीडितासि । चन्द्रापीडस्तु न तथाविधः पुरुषो नांदेव व्रतभङ्गः स्यादिति भावः । प्रसीद प्रसन्ना भव | हे सखि | उत्तिष्टोत्थानं कुरु | रति विरहित तमगृहीतो मकरचिह्नितो ध्वजो येनैवंभूतं साक्षादिव भगवन्तं मकरध्वजं पश्य विलोकय । अयमि