पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १६५ प्रसस्नुरालापाः । तथाहि 'त्वरितगमने, मामपि प्रतिपालय | दर्शनोन्मत्ते, गृहाणोत्तरीयम् । उल्लासयालकलतामाननावलम्बिनीं मूंढे | चन्द्रलेखामुँपाहर | उपहारकुसुम स्खलित चरणा पतसि मदनान्धे । संयमय मदनिश्चेतने, केशपाशम् | उत्क्षिप चन्द्रापीडदर्शन व्यसनिनि, काञ्चीदामकम् | उत्सर्पय पापे, कपोलदोलायितं कर्णपल्लवम् | अहृदये, गृहाण निपतितं दन्तपत्रम् । यौवनोन्मत्ते, विलोक्यसे जनेन स्थगय पयोधरैभारम् | अपगतलजे, शिथि लीभूतमाकलय दुकूलम् | अलीकमुग्धे, द्रुततरमागम्यताम् | कुतूहलिनि, देहि नृपदर्शना- न्तरम् | असंतुष्टे, कियदालोकयसे | तरलहृदये, परिजनमपेक्षस्व | पिशाँचि, गलितोत्त- रीया ईस्यसे जनेन । रागावृतनयने, पश्यसि न सखीजनम् । अनेकभङ्गिविकारपूर्ण, दुःख- मकारणायासितहृदया जीवसि | मिथ्याविनीते, किं व्यपदेशवीक्षितैः, विश्रब्धं विलोकय । यौवनशालिनि, किं पीडयसि पयोधरभारेण | अतिकोपने, पुरतो भव | मत्सरिणि, किभे- काकिनी रुणत्सि वातायनम् | अनङ्गपरवशे, मदीयमुत्तरीयांशुकमुत्तरीयतां नयसि | राँगा- १ १ · न्मयाः | सह स्पृहया वाञ्छया वर्तमानाः सस्पृहाः | तानेव प्रदर्शयन्नाह -तथाहीति | त्वरितं शीघ्रं गमनं यस्यास्तस्याः संबोधनं हे त्वरितगमने। मां सखीमपि प्रतिपालय | गृहीत्वा गच्छेत्यर्थः । दर्शनेऽवलोकन उन्म- त्ता ग्रथिता तस्याः संवोधनं हे दर्शनोन्मत्ते | उत्तरीयमुपरिवस्त्रं गृहाण | पतन्तं निवारयेत्यर्थः । हे सूटे- इनगिज्ञे । आननावलम्बिनीं मुखोपरि सस्तामलकलतां केशलतामुल्लासयोध्वीकुरु | हे मदनान्धे चन्द्रले सामलिकाभरणमुपाहर दूरीकुरु | उपहारार्थं पूजार्थं यानि कुसुमानि तैः स्खलितचरणा पतसि | पतिप्यसीत्यर्थः । 'वर्तमानसामी ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्तमानः | हे मदनिश्चेतने | केशपाशमल- कसमूहं संग्रमय सम्यग्वन्धनं कुरु | हे चन्द्रापीडदर्शन व्यसनिनि । काञ्चीदामकं रसनादामोत्क्षिपोचैर्नय । हे पापे । कपोलदोलायितं कपोलावलम्बि कर्णपल्लवमुत्सर्पयोर्ध्वं कुरु | हे अहृदये हृदयवर्जिते । निपतितं सस्तं दन्तपत्रं कर्णाभरणं गृहाण स्वीकुरु | हे यौवनोन्मत्ते | यौवनं तारुण्यं तेनोन्मत्ते । पयोधरभारं स्थगयाच्छा- दय । जनेन विलोक्यस आगन्तुकलोकेन दृग्विषयीकियसे । हे अपगतलजे अपगता दूरीभूता लज्जा यस्यास्तस्याः संबोधनम्, शिथिलीभूतं श्लथीभूतं दुकूलं दुकूलमाकलय जानीहि । हे अलीकमुग्धे त्वं गुग्धा नासिं । किंतु मिथ्यामुग्धत्वं प्रतिपनासि | द्रुततरं शीघ्रतरमागम्यताम् । किमर्थं विलम्चं करोपि | हे कुतूहलनि कुतूहलं विद्यते यस्यामिति तस्याः संबोधनम् | नृपदर्शनार्थमन्तरं विचालं देहि । 'विचालं मध्यमन्तरे' इति कोशः । हे असंतुष्टे संतोषवर्जिते । कियत्कियन्मात्रमालोकयसे वीक्षसे । हे तरलहृदये चञ्चलचित्ते । परिजनं परिच्छदमपेक्षस्खापेक्षां कुरु | हे पिशाचि हे राक्षसि । गलितं स्वस्थानात्वस्तमुत्तरीय संव्यानं यस्या एवंविधा त्वं जनेन लोकेन ह्रस्यसे । हे रागावृतनयने रागेण कामरागेणावृते आच्छादिते नयने लोचने ग्रस्यास्तस्याः संवोधनम् | सखीजनमालिजनं न पश्यसि न विलोकयसि । अनेकेति । अनेके ये विस्त इदर्श । Amm क