पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । शिखण्डिनां के कारखैरनुगम्यमानः, नवजलधररव भयचकित कलहंस कोलाहल कोमलः, मकर- ध्वजविजयघोषणानुकारी, परस्परविघट्टनारणिततारतरहारमणीनां रमणीनां श्रोत्रहारी, हर्म्यकुक्षिषु प्रतिरवनिर्हादी भूषणनिनादः । मुहूर्तादिव युवतिजननिरन्तरतया नारीमया इव प्रासादाः, सालक्तक पदकमलविन्यासैः पल्लवमयमिव क्षितितलम् अङ्गनाङ्गप्रभाप्रवाहेण लावण्यमयमिव नगरम्, आननमण्डलनिवहेन चन्द्रबिम्बमयमिव गगनतलम्, आतपनिवा- रणायोत्ता नितकरतलजालकेन कमलवनमयमिव दिक्चक्रवालम, आभरणांशुकलापेनेन्द्रायुध- मय इवातप:, लोचनमयूखलेखासंतानेन नीलोत्पलदलमय इव दिवसो बभूव । कौतुकप्रसा- रितनिश्चललोचनानां च पश्यन्तीनां तासामादर्शमयानीव सलिलमयानीव स्फटिकमयानीव हृदयानि विवेश चन्द्रापीडाकृतिः । आविर्भूतमद् नरसानां चान्योन्यं सपरिहासाः सविनम्भाः ससंभ्रमा: सेर्ष्या : सोलासा: साभ्यसूयाः सविलासाः समन्मथा: सस्पृहाच तत्क्षणं र्रमणीयाः तानामवरोध शिखण्डिनामन्तःपुरमयूराणां केकारवैरनुगम्यमानः | नवो नवीनोऽकालसंभवो यो जलधरो मेघ- स्तस्य यो रवः शब्दस्तस्माद्यद्भयं तेन चकितास्त्रस्ता ये कलहंसाः कादम्वास्तेषां कोलाहलस्तेन कोमलो मधुरः । हर्षप्रकर्षाद्वाद्यमानपटहध्वनेर्नवजलधरध्वनिसाम्यम् । मकरध्वजस्य कन्दर्पस्य या विजयघोषणा त्रैलोक्यं मया जितमित्युद्धोपणं तस्या अनुकारी सादृश्यकरणशीलः । परस्परं यद्विशेषेण घट्टनं संश्लेषस्तेनारणिताः शब्दि- तास्तारतरा आकरशुद्धोद्भवा अतिमनोहरा हारमणयो यासामेवंविधानां रमणीनां स्त्रीणां श्रोत्रहारी कर्णम नोहरः । हर्म्यकुक्षिषु गृहकोणेषु प्रतिरवनिदः प्रतिच्छन्दत्वनिर्विद्यते यस्य स तथा । ततो भूषणध्वनिरुद- पादीत्यन्वयस्तु प्रागेवोक्तः । मुहूर्तादिव मुहूर्तानन्तरं युवतिजनैः स्त्रीजनैर्निरन्तरतया निविडतया प्रासादा भूपसद्मानो नारीमया इव स्त्रीभिर्निष्पन्ना इव वभूवुः । सालक्तकं सयावकं यत्पदकमलं चरणपद्मं तस्य वि न्यासैः स्थापनैः क्षितितलं वसुधातलं पल्लवमयमिव किसलयमय मित्रासीत् | अङ्गनानां योषितामङ्गस्य शरीरस्य प्रभाप्रवाहेण कान्तिधारया नगरं द्रनं लावण्यमयमिव चातुर्यमयमिवासीत् | आननं मुखं तस्य मण्डलम् । वर्तुलाकृतित्वात् । तेषां निवहेन समूहेन गगनतलं व्योमतलं चन्द्रबिम्बमय मिवासीत् | आतपनिवारणाय सूर्यालोकदूरीकरणायोत्ता नितान्यूचकृतानि यत् ( यानि ) करतलानि तेषां जालकेन समूहेन दिक्चक्रवालं दिशां चक्रं कमलवनमय मिवासीत् आमरणानां भूषणानामंशवः किरणास्तेषां कलापेन समूहेनातप इन्द्रायु- धमय इव आसीत् । लोचनानां नेत्राणां या मयूखलेखाः कान्तिराजयस्तासां संतानेन परंपरया दिवसो नीलो- त्पलदलमय इव बभूव । नीलन लिनद लैर्निष्पन्न इवेत्यर्थः । कौतुकेन कुतूहलेन प्रसारितानि विस्तारितान्य- तएव निश्चलानि स्थिराणि लोचनानि नेत्राणि यासामेवंविधानां पश्यन्तीनां विलोकयन्तीनां तासां योषितां हृदयानि चन्द्रापीडाकृतिर्विवेश प्रविष्टा | हृदयानि विशेषयनाह - आदर्शति । आदर्शों मुकुरस्तन्मयानीव तद्रूपाणीव | सलिलं जलं तन्मयानीव | स्फटिकः प्रसिद्धस्तन्मयानीव । प्रतिबिम्बसाधर्म्या देतेषामु धमानम् । आविरिति । अ विर्भूतः टीभ मदर : मरस सामेवंवि नां कामिनीनामन्योन्यं