पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ कादम्बरी। क्षितितलनिहितजानुकरकमला सविनयमब्रवीत्-देव, द्वारस्थितासुरलोकमारोहतस्त्रिशको- रिव कुपितशतमखहुंकारनिपातिता राजलक्ष्मीदक्षिणापथादागता चाण्डालकन्यका पञ्जरस्थं शुकमादाय देवं विज्ञापयति---'सकलभुवनंतलरत्नानामुदधिरिवैकभाजनं देवः । विहंगमश्चा- यमाश्चर्य तो निखिलभुवनतलरत्नमिति कृत्वा देवपादमूलमादायागताह मिच्छामि देवदर्शन- सुखमनुभवितुम्' इति । एतदाकर्ण्य 'देवः प्रमाणम्' इत्युक्त्वा विरराम । उपजातकुतूहलस्तु राजा समीपवर्तिनां रोज्ञामालोक्य मुखानि 'को दोषः प्रवेश्यताम्' इत्यादिदेश । अथ प्रतीहारी नरपतिकथनानन्तरमुत्थाय तां मातङ्गकुमारी प्रावेशयत् । प्रविश्य च सा नरपतिसहस्रमध्यवर्तिनमशनिभयपुञ्जितकुलशैलमध्यगतमिव कनकशिखरिणम् , अनेकरत्ना- त्युत्प्रेक्षा । अपूर्वति शेषः । अतएव विग्रहिणी शरीरिणी। पुनस्तामेव विशेषयन्नाह-क्षितीति । क्षिति- तले भूमितले निहिती स्थापितो जानू तलकीलो, अथ च करौ तावेव कमले यया सा तादृशी । सविनयं विनयेन सहवर्तमानम् । किमब्रवीत्तत्राह--देवेति । हे देव हे स्वामिन्, द्वारे स्थिता चाण्डालानां दिवाकी- तीनां कन्यका कुमारी पञ्जरे पक्षिणामाश्रये स्थितं शुकं कीरमादाय गृहीखा देवं खामिनं विज्ञापयति । खरहस्यं निवेदयतीत्यर्थः । केव । सुरेति । सुराणां देवानां लोकं स्वर्गमारोहत आरोहणं कुर्वतस्त्रिशको- रयाज्यस्य राजलक्ष्मीरिव । तामेव विशेषयन्नाह--कुपितेति । त्रिशोरयाज्यस्य देवयागात्खर्गे वासो न भवतीत्यतः कुपितः क्रुद्धो यः शतमख इन्द्ररतस्य हुंकारः कोपध्वनिस्तेन निपातिताधःक्षिप्ता । कीदृशी चाण्डालकन्यका । दक्षिणेति । दक्षिणापथाद्दक्षिणमार्गादागता प्राप्ता । प्रतीहारी चाण्डालकन्यकायाः सामान्यतो विज्ञापनाविषयमाह-सकलेति। चाण्डालकन्यकायास्त्वियं विज्ञापना । देवेति । हे देव, इति कृत्वा तं शुकमादाय देवस्य राज्ञः पादमूलं चरणमूलमहमागता देवदर्शन सुखं महाराजस्यावलोकनसातमनुभ- वितुमनुभव विषयीकर्तुमिच्छामि समीहे । इतिशब्दवाच्यमाह-सकलेति । सकलानि समग्राणि यानि भुवन- तलानि तेपु यानि रत्नानि तेषामेकं भाजनमुत्कर्षस्थानम् । क इव । उदधिरिव समुद्र इव । यथोदधिः सर्वरत्ना- नां भाजनं तथा देवो भवानपीत्यर्थः । अयं विहंगमः पक्षी शुक आश्चर्यभूत इत्यद्भुतप्रेक्षणविषयः । अतस्ताह- शोक्तविशेषलादेव निखिलानि यानि भुवनतलानि तेषां रत्नमुत्कृष्टम् । 'जातौ जातो यदुत्कृष्टं तद्रत्नमभिधी- यते' इति । आदाय गृहीखा । देवः प्रमाणमिति । यदेवाथ राज्ञोऽनुशासनं तदेव मया विधेयमित्युक्त्वा विरराम तूष्णीं बभूवेत्यन्वयः । प्रतीहार्युक्तं चाण्डालकन्यका विज्ञापनावाक्यं सर्वं नृपेणाकर्ण्य राजमन्त्रि- वैमत्यं निराकुर्वन्प्रतीहारी प्रतीत्यादिदेश । को दोपः प्रवेश्यतामिति । स्पष्टम् । कीदृशो राजा । उपेति । उपजातमुत्पन्नं कुतूहलं कौतुकं यस्य स तथा । किं कृखा । समीपवर्तिनां निकटस्थानां राज्ञां मन्त्रिणां च मुखानि वदनान्यालोक्य । निरीक्ष्येत्यर्थः । तेषामपि तद्दिदृक्षति ज्ञात्वेत्यर्थः ।