पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व मागः । १७ भरण किरणजालकान्तरितावयवमिन्द्रायुधसहनसंछादिताष्टदिग्भागमिव जलधरदिवसम् अ- वलम्बितस्थूलमुक्ताकलापस्य कनकशृङ्खलानियमितमणिदण्डिकाचतुष्टयस्य गगनसिन्धुफेनप- टलपाण्डुरस्य नातिमहतो दुकूलवितानस्याधस्तादिन्दुकान्तपर्यङ्किकानिपण्णम्, उद्धूयमानसु- वर्णवण्डचामरकलापम्, उन्मयूखमुखकान्तिविजयपराभवप्रणते शशिनीव स्फटिकपादपीठे विन्यस्तवामपादम्, इन्द्रनीलमणिकुट्टिमप्रभासंपर्क श्यामायमानैः प्रणतरिपुनिःश्वासमलिनीक- तैरिव चरणनखमयूखजालैरुपशोभमानम्, आसनोल्लसितपद्मरागकिरणपाटलीकृतेनाचिरम- दितमधुकैटभरुधिरारुणेन हरिमिवोरुयुगलेन विराजमानम्, अमृतफेनधवले गोरोचनालिखि- तहसमिथुनसनाथपर्यन्ते चारुचामरवायुप्रनर्तितान्तर्देशे दुकूले बसानम्, अतिसुरभिचन्दना- णानि तेषां यानि किरणजालकानि । जालान्येव जालकानि । खार्थे कप् । मरीचिमण्डलानि तैरन्तरिता आ- च्छादिता अवयवा अपघना यस्य स तम् । नीलपीतादिवर्णयोगात् । तत्रोपमानमाह-इन्द्रेति । इन्द्रायुधानां हरिकार्मुकाणां यत्सहस्रं तेन संछादितास्तिरोहिता अष्टौं दिग्भागाः ककुभां प्रदेशा यस्मिंस्तथाभूतं जलधरदिव- समिव प्राइदिनमिव । पुनस्तमेव नृपं विशिनष्टि-नातीति । नातिमहतः स्थानोचितप्रमाणस्य दुकूलं क्षौम तस्या वितानमुलोचः । 'उल्टोचो वितानं कदकोऽपि' इत्यभिधानचिन्तामणिः । तस्याधस्तात्तदधःप्रदेश इन्दुका- न्तानां चन्द्रकान्तमणीनां या पर्यतिका मञ्चिका तस्यां निपण्णगुपविष्टम् । अथ वितानं विशेषयन्नाह-अ- वेति । अवलम्बित आश्रितः स्थूलानां स्थ विष्टानां मुक्तानां रसोद्भवानां कलापो जालं येन स तथा । कस्य तस्य । कनकेति । कनकं सुवर्ण तस्य या गृङ्खला बन्धनरश्मयस्तै नियमिता निबद्धा मणिदण्डिका रत्नखचिता यष्टयस्तासां चतुष्टयं यस्मिन्स तथा तस्य । गगनेति । गगनसिन्धोः स्वर्णद्याः फेनो डिण्डीरः । 'डिण्डीरोऽब्धि. कफः फनः' इत्यभिधानचिन्तामणिः । तस्य पटलं समूहस्तद्वत्पाण्डुरं शुभ्रं तस्य । पुनर्नृपं विशिनष्टि---उद्धू- येति । उयमानो व्यज्यमानः सुवर्णस्य काञ्चनस्य दण्डोऽवलम्वनयप्रियध्वेतादृशानि चामराणि प्रकीर्णकानि

समूहो यस्य स तम् । स्फटिकेति। स्फटिकानां स्वच्छमणीनां यत्पादपीटं चरणस्थापनस्थलं तत्र

विन्यस्तः स्थापितो वामपादः राव्यचरणो येन स तथा तम् । पादपीठं विशेषयन्नाह-शशिनीति । शशिनीव चन्द्रमसीव । अथ शशिनं विशेषयन्नाह-उन्मयूखेति । उदूर्ध्वं मयूखाः किरणा यस्मिनेतादृशं यन्मुखं तस्य या कान्तिप्तिस्तया यो विजयो जयस्तेन यः पराभवरितरस्कारस्तेन प्रणते पादसंलग्ने । पुनर्नृपं विशेषयवाह- चरणेति । चरणानां पादानां ये नखाः पुनर्भवास्तेषां मयूखाः किरणास्तेपां जालानि समूहास्तरुपशोभमानं भासमानम् । मयूख जालं विशेषयन्नाह-इन्द्रेति । इन्द्रनीलमणीनामिन्द्रमणानां या कुटिमप्रभा वद्धभूमिका- न्तिस्तस्याः संपर्को मिश्रभावरतेन श्यामायमानैः श्यामवदाचरमाणः । कीदृशैरिव । प्रणतेति। प्रणता नता ये रिपवः शत्रवतेषां ये निःश्वासाश्चेतनाः तैमलिनीकृतर्मालिन्यं प्राप्तैरिव । पुनर्नृपं विशेषयन्नाह-ऊरू इति । ऊरह सक्थी तयोयुगलं तेन विराजमानं शोभमानम् । ऊरुयुगलं विशिनष्टि-आसनेति । आसन उपवेशनस्थल उल्लसिता देदीप्यमाना ये पद्मरागा लोहितमणयस्तेषां ये किरणा मयूखास्तैः पाटलीकृतेन । श्वेत. तेषां कलापः