पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः। १५ एकदा तु नातिदूरोदिते नवनलिनदलसंपुटभिदि किंचिन्मुक्तपाटलिम्नि भगवति सहस्रम- रीचिमालिनि राजानमास्थानमण्डपगतमङ्गनाजनविरुद्धेन वामपावलम्बिना कौक्षेयकेण संनिहितविषधरेव चन्दनलता भीषणरमणीयाकृतिः, अविरलमलयजार्नुलेपनधवलितस्तनत- टोन्मजदैरावतकुम्भमण्डलेव मन्दाकिनी, चूडामणिप्रतिबिम्बच्छलेन राजाज्ञेव मूर्तिमती रा- जभिः शिरोभिरुह्यमाना, शरदिव कलहंसधवलाम्बरा, जामदग्न्यपरशुधारेव वशीकृतसकल- राजमण्डला, विन्ध्यवनभूमिरिव वेत्रलतावती,राज्याधिदेवतेव विग्रहिणी प्रतीहारी समुपसृत्य वासरमनैपीत् । एवं तथैव निशां त्रियामामपि । सुहृद्भिर्मित्रैरुपेतः संयुतः । कीदृशैः। आरब्धेति । आरब्धाः प्रारब्धा ये विविधक्रीडासु परिहासास्तेषु चतुरैर्दक्षैः अनैपीदगमयदिति संवन्धः । एकदेति । एकस्मिन्समये प्रतीहारी द्वारदेशे नियुक्ता स्त्री समुपसृत्य निकटदेशमागत्य राजानं सबिन- यमब्रवीदित्यन्वयः । विनयेन सहवर्तमानमवोचदित्यर्थः । सूर्यवर्णनाव्याज उक्त्यवसरमाह-भगवतीति । श्रीसूर्य सतीत्यर्थः । इतः सूर्यं विशेषयन्नाह–सहस्त्रेति । सहस्रसंख्या ये मरीचयः किरणास्तैर्मालते शोभते तान्धारयतीति वा यः स तथा तस्मिन् । नेति । नातिदूर खल्पकालीनमुदितमुद्गमनं यस्य स तथा तस्मिन् । नवेति । नवानि प्रत्यग्राणि यानि नलिनानि तेषां दलानि पत्राणि तेषां यः संपुटो मुकुलस्तं भिनत्तीति स तथा तस्मिन् । किंचिदिति। किंचिदीषन्मुक्तः परित्यक्तः पाटलिमा श्वेतरक्तत्वं येन स तथा तस्मिन् । दूरोदितेत्यारभ्य त्रिभिर्विशेषणैः प्रत्यूषसमयो व्यज्यते । कीदृशं राजानम् । आस्थानेति । आस्थान- मण्डप उपवेशनस्थलं तत्र गतं प्राप्तम् । प्रतीहारी विशेषयन्नाह-भीषणेति । भीपणा भयानका रमणीया मनोज्ञाकृतिराकारो यस्याः सा तथा । रमणीयत्वे दृष्टान्तमाह-चन्दनलतेवेति । यथा चन्दनलता वस्तु. स्वभावादेव रमणीया तशेयमपीत्यर्थः । लताया भीषणत्वे हेतुमाह-संनिहितति । संनिहिताः पार्थवर्तिनो विषधराः सपा यस्याः सा तथेत्यर्थः। अस्या भीषण आगन्तुकहेतुमाह-वामेति। वामपार्श्वे सव्यप्रदेशेऽव- लम्बतेऽवतिष्ठत इत्येवंशीलेन कोक्षेयकेण खझेन । 'तरवारिमण्डलामः खङ्गकौक्षेयको' इति कोशः । खझं विशि. नष्टि-अङ्गनेति । अङ्गनाजनः प्रमदावर्गस्तस्य विरुद्धेन । त्रपोत्पादकेनेत्यर्थः । यथा चन्दनलताया निसर्गतो रमणीयत्वेऽपि संनिहितविषधरत्वेन भीषणत्वं तथैतस्या अपि स्वभावतो बन्धुरत्वेऽपि वामपार्श्ववर्तिनिस्त्रिंश- स्वैन भीपणवमित्यभिप्रायः । अथ प्रतीहारी विशिनष्टि—अविरलेति । अविरलं धनतरं यन्मलयजस्य चन्द- नस्यानुलेपनगुद्वर्तनं तेन धवलितं शुभ्रीकृतं रतनतटं कुचतटं यस्याः सा तथा । तत्र दृष्टान्तमाह-मन्दाकि- नीव स्वधुनीव । इतो गङ्गां विशेषयन्नाह--उन्मजदिति । उन्मजन्मानं कुर्वन्य ऐरावतो हस्तिमालस्तस्य कुम्गमण्डलं शिरःपिण्डचक्रवालं यस्यां सा तथा । चन्द्रशुभ्रकुम्भोपमानेन कुचतटस्य काटिन्यं व्यज्यते । केव । मूर्तीति । मूर्तिमती विग्रहवती राजाज्ञेव नृपशिष्टिरिव । ननु राजाज्ञा संनिहितराजशिरोभिरुह्य- माना । भवेत् । इयं तु तथा न भवतीत्यत आह-: -चूडेति । अर्थात्संनिहितराजमस्तकेषु चूडामणयः शिरो- मणयस्तेषु यः प्रतिविम्बः प्रतिच्छायस्तस्य छलं मिषं तेन । राजभिर्नृपैः शिरोभिरुत्तमा.रुह्यमाना बह-