पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १५९ भावा नानाकारा भूत्वा बभ्रुमुरिमं लोकम् | असंशयमनेनापि महात्मना केनापि शापभाजा भवितव्यम् । आवेदयतीव मदन्तःकरणमस्य दिव्यताम्' इति विचिन्तयन्नेवारुरुक्षुरासनादु- दतिष्ठत् | मनसा च तं तुरङ्गममैनुपसृत्य 'महात्मन्नर्थन्, योऽसि सोऽसि । नमोस्तु ते । सर्वथा मर्षणीयोऽयमारोहणातिक्रमोऽस्माकम् । अपरिगतानि दैवतान्यप्यनुचितपरिभव- भाजि भवन्ति' इत्यामन्त्रयांबभूव । विदिताभिप्राय इव स तमिन्द्रायुधःचटुलशिरः केसरस- टाहत्याकूणिता के करतारकेण तिर्यक्चक्षुषा विलोक्य मुहुर्मुहुस्ताडयता क्षितितलमुत्खातधूलि- धूसरितक्रोडरोमराजिना दक्षिणखुरेणारोहणायाह्वयन्निव स्फुरितव्राणविवरघरध्वनि मिश्र मधुरम्परुपहुंकारपरंपरानुवद्धमतिमनोहरं हेपारवमकरोत् । अथानेन मधुरहेपितेन दत्तारोह- णाभ्यनुज्ञ इवेन्द्रायुधमारुरोह चन्द्रापीडः | समारुह्य तं प्रादेशमात्रमित्र त्रैलोक्यमखिलं मन्यमानो निर्गत्य जलधर विमुक्तोपलासारपरुषेण जर्जरयतेव रसातलमतिनिष्टुरेण खुरपु- वोचन्– 'लया चापत्योत्पत्तिर्न कृता । तद्विरहात्त्यदुपरमे पुंनाम्नि नरके पतिष्यामः' इति । तच्छ्रुवा महर्षी रम्भाभिधानामेव योषितमिदमुक्तवान्– 'त्वां कामयामः' । तथा चोक्तम् – 'यथाज्ञापयसि | किंतु देवकार्य कृत्वागच्छामि । क्षम्यतां तावत्' । गतायां संकेतभङ्गो जात इति महर्षिणा क्रुद्धेन 'व- डवा भव' इति सा शप्ता 'नरनारायण विग्रहावधिश्च शापो भविष्यति' इति x x x x 1 अ. न्ये चेति । अन्ये महात्मानोऽपरे गरीयांसो जना मुनिजनानां तपस्विनां शापेनाननुग्रहेण परिपीत आ- स्वादितः प्रभावो माहात्म्यं येषां ते तथा नानाकारा भूत्वा विविधप्रकाराणि शरीराण्युपगृह्येमं लोकं वभ्र- मुर्भ्रमितवन्तः । असंशयं निःसंशयमनेनापि केनापि महात्मना महापुरुषेण शापभाजा भवितव्यम् । मदन्तःकरणं मन्मानसमस्य तुरङ्गस्य दिव्यतां देवत्वमावदेयतीव ज्ञापयतीव । इति विचिन्तयन्नेवेति ध्याय- नेव आरुरुक्षुरारोढुमिच्छुरासनात्सिंहासनादुदतिष्ठदुत्थितो वभूव । तं तुरङ्गममनुपसृत्य तत्समीपेऽनागत्य मनसैव महात्मन् हे अर्वन् हे अश्व | योऽसि सोऽसि यत्तद्भवसि । अतोऽलक्ष्यस्वरूपायानाकलनी यात्मने ते तुभ्यं नमो नमस्कारोऽस्तु | सर्वथा सर्वप्रकारेणास्माकमारोहणेन योऽतिक्रमोऽवज्ञा स मर्पणीयः सहनीयः | अपरिगतान्यज्ञातानि दैवतान्यनुचितोऽयोग्यो यः परिभवः क्लेशस्तद्भाजि भवन्तीति हेतोरामन्त्रयांवभूत्रा- मन्त्रणं चकार । स इन्द्रायुवोऽश्वस्तं चन्द्रापीडं स्वस्मिन्नारोहणेऽनुमतिरेव नापराध इति स्वाभिप्राय स्वा. शक्रियाभिः स्पष्टयन्विदितो ज्ञातोऽभिप्राय आरोहणानुमतिलक्षणो येनैतादृश इव हेपारवं हेपाशब्दमक- रोदित्यन्वयः । अथ हेषारवं विशेषयन्नाह - स्फुरितेति । स्फुरितो धूतो यो घ्राणविवरो नासिकारन्ध्रं तस्य यो घर्घरध्वनिरव्यक्तः शब्दस्तेन मिश्र संयुक्तं मधुरं कर्णसुखदमतएवापरुपमकटोरं हुंकारस्य हुंकृतेर्या परंपरा संतानं तयानुबद्धं सहितमतएवातिमनोहरमतिरमणीयम् । चटुलं चञ्चलं यच्छिर उत्तमानं तस्य या केसरलक्षणा सटा- जटा तस्या आहतिराघातस्तयाकूणिता किंचिन्निम्ना आकेकरा किंचिद्वका तारका कनीनिका यस्मिन्नेवंभूतेन च क्षुषा नेत्रेण तिर्यक्तिरश्चीनं विलोक्य निरीक्ष्य मुहुर्मुहुर्वारंवारं क्षितितलं पृथ्वीतलं ताडयतास्फालयतोत्खातो-