पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ कादम्बरी | लमस्य पृष्ठमाखण्डलेन किमासादितं त्रैलोक्यराज्यफलम् | उच्चैःश्रवसा विस्मितहृदयो वश्चि- तः खलु जलनिधिना शतमखः । मन्ये च भगवतो नारायणस्य चक्षुर्गोचरमियंता कालेन नायमुपगतो येनाद्यापि तां गरुडारोहणव्यसनितां न लैजति । अहो खल्वतिशयित त्रिदश- राज्यसमृद्धिरियं तातस्य राज्यलक्ष्मीर्यदेवंविधान्यपि सकलत्रिभुवनदुर्लभानि रत्नान्युपकरण- तामागच्छन्ति । अतितेजस्वितया महाप्राणतया च सदैवतेवेयमस्याकृतिर्यत्सत्यमारोहणे श कामिव मे जनयति । न हि सामान्यवाजिनाममानुषलोकोचिताः सकलत्रिभुवन विस्मयज - नन्य ईदृश्यो भवन्त्याकृतयः | दैवतान्यपि हि मुनिशापवशा दुज्झितनिजँशरीराणि शापवच- नोपनीतान्येतानि शेरीरान्तराण्यध्यासत एव । श्रूयते हि पुरा किल स्थूलशिरा नाम महा- तपा मुनिरखिलत्रिभुवनललामभूतामप्सरसं रम्भाभिधानां शशाप | सा सुरलोकमपहाया- श्वहृदये निवेश्यात्मानमश्वहृदयेति विख्याता वैडवा 'मृत्तिकावत्यां शतधन्वानं नाम राजान- मुपसेवमाना मर्त्यलोके महान्तं कालमुवास | अन्ये च महात्मानो मुनिजनशापपरिपीतप्र- मस्य पृष्ठं पृष्टिप्रदेशमनारोहतानधिरोहताखण्डलेनेन्द्रेण त्रैलोक्यराज्यफलं किमासादितम्। न किमपीत्यर्थः । उच्चरि ति। खलु निश्चयेन उच्चैःश्रवसा कृत्वा विस्मितहृदयो हर्षितहृदयो जलनिधिना समुद्रेण शतमख इन्द्रो वञ्चितो विप्र- तारितः । गुणातिशयं प्रतिपादयितं वितर्कमाह - मन्ये चेति । अहमिति मन्य इति जाने | इयता कालेन भगवतो नारायणस्य चक्षुर्गोचरं नेत्रविषयमयं नोपगतो न प्राप्तः | हेतुमाह - येनेति । येन हेतुनाद्याप्येतावत्कालपर्यन्तमपि तां गरुडारोहणव्यसनितां वैनतेयाधिरोहणासक्ततां न त्यजति न जहाति । अहो इत्याश्चर्ये । खलु निश्चयेन तातस्य मतिपतुरियं राज्यलक्ष्मीराधिपत्यश्री रतिशयितातिकान्ता त्रिदशराज्यसमृद्धिर्देवाधिपत्यश्रीर्ययैवंविधा वर्त- ते। अस्मिन्नर्थे हेतुं प्रदर्शयन्नाह - यदिति। एवंविधान्यपि पूर्वोक्तस्वरूपाण्यपि सकलत्रिभुवनदुर्लभानि त्रिजगहुः- प्राप्यानि रत्नान्युपकरणतां परिभोग्यतामागच्छन्ति प्राप्नुवन्ति । अतीति । अतितेजस्वितया महाप्राणतया महासा इसपराक्रमतया | चकारः समुच्चयार्थः । अस्य अश्वस्येय माकृतिराकारः सदैवता स्वर्वासिना सहवर्तमाना। अधि- ष्ठितेति यावत् । सत्यमेतद्यस्मादारोहणेऽधिरोहणे मे मम शङ्कामिव जनयति । नहि सामान्यवाजिनां दैवतान- धिष्ठिततुरङ्गमाणाममानुषलोकोचिताः सुरलोकयोग्याः सकलं सममं यत्रिभुवनं त्रिविष्टपं तस्य विस्मयजनन्य आश्चर्योत्पादिन्य ईदृश्य एतादृशा आकृतय आकारा भवन्ति । देवानामपि रूपान्तरग्रहणं संभवतीत्याशये- नाह – दैवतेति । श्रीति निश्चितार्थे । दैवतान्यपि नाकिनोऽपि मुनयो योगिनस्तेषां शापवशादननुग्रहवला- दुज्झितानि त्यक्तानि निजशरीराणि यैरेवंभूतानि शापवचनोपनीतानि शापवाक्यप्रापितानि शरीरान्तराणि स्वशरीराद्भिन्नेन्द्रियायतनान्यव्यासत एवाश्रयन्त्येव । श्रूयते हीति । किलेति सत्ये | हि निश्चये । श्रूयते आकर्ण्यते । पुरा पूर्व स्थूलशिरा नाम महातपा मुनिरखिलं समग्रं यन्त्रिभुवनं त्रिविष्टपं तत्र ललामभूतामाभ- . रणभूतामप्सरसं स्वधूम् | क्वचिदेकवचनान्तोऽव्ययम् । तदुक्तम्- 'स्त्रियां बहुष्व सरसः स्यादेकत्वे-