पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ कादम्बरी एप खलु देवस्य पारसीकाधिपतिना त्रिभुवनाश्चर्यमितिकृत्वा 'जलधिजलादुत्थितमयोनिजमि- दमश्वरलमासादितं मया महाराजाधिरोहणयोग्यम्' इति संदिश्य प्रेहितः । दृष्ट्वा च निवे- 'दितं लक्षणविद्भिः –'देव, यान्युचैःश्रवसः श्रूयन्ते लक्षणानि तैरयमुपेतः । नैवंविधो भूतो भावी वा तुरङ्गमः' इति । तदयमनुगृह्यतामधिरोहणेन । इदं च मूर्धाभिषिक्तपार्थिवकुलप्रसू- तानां विनयोपपन्नानां शूराणामभिरूपाणां कैलावतां च कुलक्रमागतानां राजपुत्राणां सहस्रं परिचारार्थमनुप्रेपितं तुरङ्गमारूढं द्वारि प्रणामलालसं प्रतिपालयति' । इभिधाय विरतव- चसि वलाहके चन्द्रापीडः पितुराज्ञां शिरसि कृत्वा नवजलधरध्वानगम्भीरया गिरा 'प्रवे- श्यतामिन्द्रायुधः, ' इति निर्जिगमिपुरादिदेश | अथ वेचनानन्तरमेव प्रवेशितम्, उभयतः खैली नककटकावलग्नाभ्यां पदे पदे कृताकुञ्चनप्रयत्नाभ्य पुरुषाभ्यामवकृष्यमाणम्, अति- प्रमाणम, ऊर्ध्वकरपुरुषप्राप्यपृष्ठभागम् अपिबन्तमिव संमुखागतमखिलमाकाशम्, अति- निष्टुरेण मुहुर्मुहुः प्रकम्पितोदररन्ध्रेण हेपारवेण पूरितभुवनोद रविवरेण निर्भर्त्सयन्तमिवाली- , - 4 तोल्यां तिष्ठति । खलु निश्चयेन । एष इन्द्रायुधः पारसीकाधिपतिना यवनाधीशेन देवस्य स्वामिन- स्त्रिभुवनाश्चर्यमितिकृत्वेति संदिश्येति कथयित्वा च प्रहितः प्रेषितः । इतिवाच्यमाह - इदमश्वरत्नं मयासादितं प्राप्तं महाराजस्य स्वामिनस्तारापीडस्याधिरोहण आरोहणे योग्यं समुचितम् । अस्मिन्नर्थे हेतुमाह - जलधी ति । जलधिजलात्समुद्रोदका दुत्थितमतएवायोनिजं पुंस्त्रीसंबन्धादनुत्पन्नम् | दृष्ट्वा चेति | लक्षणविद्भि- शालिहोत्रशास्त्रज्ञैर्दृष्टा निरीक्ष्य | तमिति शेषः । निवेदितं कथितम् । राज्ञ इति शेषः । देव हे स्वामिन् | यान्युः चैःश्रवस इन्द्रतुरङ्गमस्य लक्षणानि चिह्नानि श्रूयन्त आकर्ण्यन्ते तैर्लक्षणैरयमिन्द्रायुध उपेतः सहितः । एवं- विध एतादृशस्तुरङ्गमो न भूतः पूर्व नासीन्न भावी भविष्यति नाग्रे । तदिति हेत्वर्थे । अयमश्वोऽधिरोहणेनानु- गृह्यतामनुग्रहविषयी क्रियताम् । इदं राजपुत्राणां सहस्रं परिचारार्थं सेवार्थमनुप्रेषितम् । तुरङ्गमप्रेषणानन्तरं पश्चात्प्रेषितमिति भावः । एतदेव विशिष्टि- मूर्धाभिषिक्ता ये पार्थिवा राजानस्तेषां कुलं वंशस्तत्र प्रसूताना. सुत्पन्नानां, विनयेन मर्यादयोपपन्नानां सहितानाम्, शूराणां साहसगुणोपेतानाम्, अभिरूपाणां पण्डितानाम्, कलावतां विज्ञानवताम्, कुलकमागतानां परंपरयागतानाम्, तुरङ्गमारूढ़मश्वाधिरूढं द्वारि प्रतोल्यां प्रणामला- लसं प्रणामो नमस्कारस्तत्र लालसं कृतस्पृहं प्रतिपालयति कालक्षेपं करोति । इत्यभिधायेत्युक्त्वा बलाहके विरतवचसि सति चन्द्रापीड: पितुराज्ञां जनकनिर्देशं शिरसि मस्तके कृत्वारोप्य | नवेति । नवो यो जल- धरो मेघस्तस्य यो ध्वानः शब्दस्तद्वद्गम्भीरया मन्द्रया गिरा वाचा ततो निर्जिगमिषुर्निर्गन्तुमिच्छुरिन्द्रायुधः प्रवेश्यतामानीयत।मित्यादिदेशाज्ञां दत्तवान् । अथ एतद्वचनानन्तरमेव प्रवेशितं प्रवेशं कारितमिन्द्रायुधनामा नमश्वमद्राक्षीदिति दूरेणान्वयः । तत्राश्वस्य यथासंभवं क्रियागुणद्रव्यजातिभिः स्वभावं वर्णयितुं तद्विशेषणान्याह- खलीनेति । खलीनकं मुखयन्त्रणं तस्य कटके वलये तत्रावलग्नाभ्यामासक्ताभ्यां पदे पदे प्रतिपदं कृतं विहि-