पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । । व्यज्यमानरागरमणीयः सूर्योदय इव कमलवनस्य, विविधलास्यविलासयोग्यः कलाप इव शिखण्डिनो यौवनारम्भः प्रादुर्भवन्रमणीयस्थापि द्विगुणां रमणीयतां पुपोप | लब्धावसरः सेवक इव निकटीबभूवास्य मन्मथः | लक्ष्म्या सह वितस्तार वक्षस्थलम् | वन्धुजन मनो- रथैः सहापूर्यतोरुदण्डद्वयम् | अरिजनेन सह तनिमानमभजत मध्यभागः | त्यागेन सह प्रथिमानमाततान नितम्बभागः | प्रतापेन सहारुरोह रोमराजि: | अहितकलत्रालकलताभिः सह प्रलम्वतामुपययौ भुजयुगलम् | चरितेन सह धवलतामभजत लोचनयुगलम् | आज्ञया सह गुरुवर्भुव भुजशिखरदेशः । स्वरेण सह गम्भीरतामाजगाम हृदयम् । एवं च क्रमेण समारूढयौवनारम्भं परिसमाप्तसमग्रकलाविज्ञानमधीताशेषविद्यं चावगम्या- नुमोदितमाचार्यैश्चन्द्रापीडमानेतुं राजा बलाधिकृतं बलाहकनामानमाहूय बहुतुरगवलपदाति- परिवृतमतिप्रशस्तेऽह्नि प्राहिणोत् । स गत्वा विद्यागृहं वः स्यैः समावेदितः प्रविश्य क्षितितला- चॅलम्बितचूडामणिना शिरसा प्रणम्य स्वभूमिसमुचिते राजसमीप इव सविनयमासने राजपु- त्रानुमतो न्यपीदत् । स्थित्वा च मुहूर्तमात्रं वलाहकश्चन्द्रापीडमुपसृत्य दर्शित विनयो व्यजि १५२ इदमपि द्वयोविशेषणम् | उभयत्र रागोदयसद्भावात् । कमलवनस्य सूर्योदय इव विविधो यो लास्यविलासो नृत्य विलासस्तस्य योग्य उचितः । उभयोर्विशेषणम् | शिखण्डिनो मयूरस्य कलाप इव प्रचलाक इव । अस्य च- न्द्रापीडस्य लब्धावसरः प्राप्त प्रस्तावः सेवक इव भृत्य इत्र मन्मथः कंदर्प निकटीवभूव समीपवर्त्यभूत् । इत्यनेन चन्द्रापीडस्य मन्मथाधीनत्वं नास्तीति सूचितम् । एतदेव विवृणोति - लक्ष्म्येति । लक्ष्म्या सह श्रिया सह वक्षःस्थलं भुजान्तरस्थलं वितस्तार विस्तीर्ण वभूव । वन्धुजनानां कुटुम्बजनानां मनोरथैर्वाञ्छितैः सहोरुदण्ड द्वयं सक्थियुगलमापूर्यत पूर्ण वभूव | सातिशयमज निष्टेति भावः | अरिजनेन शत्रुजनेन सह मध्यभागोऽवलग्न- प्रदेशस्त निमानं कृशत्वमभजताश्रयत् । लागेन दानेन सह नितम्बभाग आरोहप्रदेशः प्रथिमानं महत्त्वमात- तान विस्तारमवाप | 'तनु विस्तारे' लिटि रूपम् | प्रतापेन कोशदण्डप्ररावतेजसा सह रोगराजिस्तनूरुहश्रेणि- राख्रोहारूडा बभूव । ‘रुह् जन्मनि' इत्यस्य लिटि रूपम् | अहति । अहितकलत्राणां शत्रुस्त्रीणामलकर- ताभिः । केशलताभिः सद् भुजयुगलं वाहुयुग्मं प्रलम्बतां दीर्घतामुपययौ नाप | चरितेनाचारेण सह लोचनयु- गलं नेत्रयुग्मं धवलतां शुभ्रतामभजत प्रापत् । आज्ञया निर्देशेन सह भुजशिखरदेशः स्कन्धप्रदेशः । ‘अंसो भुजशिरः स्कन्धे' इति कोशः | गुरुर्महान्वभूवाभूत् | स्वरेण शब्देन सह गम्भीरतां गाम्भीर्यतां हृदयं स्वान्तमाजगामागमत् । यद्यपि लक्ष्म्या विस्तारस्य मनोरथेषु पूर्णत्वस्यैवमरिजने कृशत्वादेः स्वस्ववाक्यादेव लाभेऽपि सातिशयत्वं व्यङ्ग्यम् । एवमिति । एवं पूर्वोक्त प्रकारेण समारूढः प्राप्तो यौवनारम्भो येन स तम् । परिसमाप्तं समग्रकला विज्ञानं