पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १५१ लावेलम्चितकर्णपल्लवावनताङ्गाः सिंहकिशोरकक्रमाक्रान्ता इव गजकलभकाश्चलितुमपि न शेकु: । एकैकेन कृपाणप्रहारेण तौलतरून्मृणालदण्डानिव लुलाव | सकलराजन्यवंशवन- दावानलस्य परशुरामस्येवास्य नाराचाः शिखरिशिलातलभिदो बभूवुः । दशपुरुपसंवाह - नयोग्येन चायोदण्डेन श्रममकरोत् । ऋते च महाप्राणतायाः सर्वाभिरन्याभिः कलाभि- रनुचकार तं वैशम्पायन: । चन्द्रापीडस्य तु सकलकलाकलापपरिचय बहुमानेन शुकनासगौ- रखेण सहपांसुक्रीडनतया सहसंवृद्धतया च सर्वविश्रम्भस्थानं द्वितीयमिव हृदयं वैशम्पा- यनः परं मित्रमासीत् । निमेषमपि तेन विना स्थातुमेकाकी न शशाक । वैशम्पायनोऽपि समुष्णकरमिव वासरोऽनुगच्छन्न क्षणमपि विरह्यांचकार । । एवं तस्य सर्वविद्यापरिचयमाचरतश्चन्द्रापीडस्य त्रिभुवनविलोभनीयोऽमृतरस इव सागर- स्य, सकललोकहुँदयानन्दजननश्चन्द्रोदय इव प्रदोषस्य, बहुविधरागविकारभङ्गुरः सुरधनुःक- लाप इव जलवरसमयस्य, मकरध्वजायुधभूतः कुसुमप्रसव इव कल्पपादपस्य, अभिनवाभि- कीदृशाः । अनेन करतलेनावलम्बिता गृहीता ये कर्णपल्लवास्तैरवनतान्यज्ञानि येषां ते तथा । कर्णे वृत्वैव नत्रीकृता इति भावः । अन्यदयाह – एकैकेति । एकैकेन कृपाणप्रहारेण तालतरून्मृणालदण्डानिव नलि- नदण्डानिव लुलाव चिच्छेद | सकलेति । अस्य नाराचा बाणाः शिख रिशिलातलभिदो वभूवुः । अस्य किं- विशिष्टय | सकलाः समग्रा राजन्या राजानस्तेषां वंशा अन्वयास्त एव वनानि काननानि तेषु दावानलस्य वन- वह्निसदृशस्येत्यर्थः । कस्येव | परशुरामो जामदग्न्यस्तस्येव । यथा तस्य वाणाः शिलातलभिदस्तथास्यापीति भावः । दशेति । दशपुरुषैः संवाहनयोग्येनोत्थापनोचितेन अतिप्रमाणेनेत्यर्थः । अयोदण्डेन लोह- दण्डेन श्रममकरोत्परिश्रममकार्षात् । ऋते चेति । 'ऋतेयोगे द्वितीया' इति केषांचिन्मतम् । तेनाज्यशव्दार्थ- युक्तायाः पञ्चम्या न विरोधः | महाप्राणताया ऋतेऽन्याभिः सर्वाभिः कलाभिवैशम्पायनस्तं कुमारमनुचकार सादृश्यमकरोत् । वैशम्पायनस्य ब्राह्मणपुत्रत्वात्तस्मिन्नापेक्षिता साहसशक्तिरिति भावः | चन्द्रेति । चन्द्रापी- डस्य वैशम्पायनः परं मित्रमासीदित्यन्वयः । तत्र हेतुमाह - सकलेति । सकलाः समग्रा याः कला विज्ञानै- कदेशास्तासां कलापः समूहस्तदर्थं यः परिचयः संस्तवस्तत्कृतबहुमानेन संमानेन शुकनासस्य गौरवेण पूज्यत्वेन सह साधं यत्पांना त्या क्रीडनं खेलनं तस्य भावस्तत्ता तथा सह सार्धं संवृद्धः संवर्धितस्तस्य भावस्तत्ता तया । चकारी हेतुसमुच्चयार्थः | मित्रं विशेषयन्नाह - सर्वेति । सर्वो यो विम्भो विश्वासस्तस्य स्थानमाश्रयो द्वितीयं हृदयमिव । एतेन सर्वथाभेदो दर्शितः | निमेषमप्यभिचलनमात्रमध्येकाकी तेन वैशम्पायनेन बिना स्थातुं न शशाक न समर्थो वभूव | वैशम्पायनोऽयुष्णकरं सूर्य वासर इव दिवस इव तं चन्द्रापीडमनुगच्छन्प- -ट