पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ नीव निश्चलशिखैर्ध्यायद्भिर्मङ्गलप्रदीपैरुद्भासितम्, रक्षापुरुपैः परिवृतं सूतिकागृहमैदर्शत् । कादम्बरी उत्खातासिलतासनाथपाणिभिः सर्वतो । अम्भः पावकं च स्ष्टष्ट्वा विवेश | प्रविश्य च प्रसवपरिक्षामपाण्डुमूर्तेरुत्सङ्गगतं विलास- वत्याः, स्वप्रभासमुदयोपह्तगर्भगृह प्रदीप भ्रमम्, अपरित्यक्तगर्भरागत्वादुदयपरिपाटलमण्डल- मिव सवितारम, अपर संध्यालोहितबिम्चमिव चन्द्रमसम्, अनुपजातकाठिन्यमिव कल्पतरु- पल्लवम, उत्फुल्लमिव रक्तारविन्दराशिम्, अवनिदर्शनावतीर्णमिव लोहिताङ्गम्, विद्रुमकिसल- यदलैरिव बालातपच्छेदैरिव पद्मरागरश्मिभिरिव रैचितावयवम्, अनभिव्यक्तमुखप चकमिव महासेनम् सुरवनितार्कंर पॅरिभ्रष्ट मिवामरपतिङ्कुमारकम्, उत्तप्तकल्याणकार्तस्वरभारया स्वदेहप्रभया पूरयन्तमिव वासभवनम् उद्भासमानैः सहजभूषणैरिव महापुरुषलक्षणैरुपेतम्, आगामिकालपालन हृष्टयेव श्रिया समालिङ्गितम्, आहादहेतुमात्मजं ददर्श । विगतनि- , ु , । उयमानं नारायणस्य कृष्णस्य नामसहस्रं यस्मिन् | अमलेति । अमलं निर्मलं यद्धाटकं सुवर्ण तस्य यष्टयो दण्डास्तेषु प्रतिष्टापितः सम्यक्तया स्थापितैः । निश्चलेति । निचला अकम्पा शिखाचिर्यषां ते तथा तैः । अतएवान्तर्मध्ये शुभशतानि ध्यायद्भिरिव । एवंविधैर्मङ्गलप्रदीपेरुद्भासितं शोभितम् | उत्खातेति । उत्सा- ता कोशाहिः कर्पिताः असिलताः खगलतास्ताभिः सनाथाः सहिताः पाणयो ह्स्ता येषामेवंविधैः सर्वत- श्चतुर्दिक्षु रक्षापुरुषै रक्षार्थं नियुक्तसुभः परिवृतं परिवेष्टितम् | अन्वयस्तु प्रागेवोक्तः । अम्भ इति । अम्भो जलं पावकं वद्धिं च स्पृष्ट्वा तत्स्पर्श विधाय विवेश गृहे प्रवेशं कृतवान् । बालकनिरीक्षणे दृष्टिदोपनिवारकमेतत् । प्रविश्येति । प्रविश्य प्रवेशं कृत्वात्मजं ददर्शव्यन्वयः । अथात्म- जं विशेषयन्नाह -- प्रसवेति | पसवेन वैजननेन परिक्षामा कृशा पाण्डी च मूर्तिः शरीरं यस्या एवं विधाया विलासवत्या उत्सङ्गः क्रोडस्तत्र गतं प्राप्तम् । स्वेति | स्वकीयप्रभायाः कान्त्याः समुदयेन समूहेनोपहता दूरं ध्वस्ता गर्भगृहस्य सूतिकागृहस्य प्रदीपप्रभा गृहमणिकान्तिर्येन स तम् । अपरित्यक्तो यो गर्भस्य रागो रक्तिमा तस्य भावस्तत्वं तस्मात् | उदयेनोद्गमनेन परिपाटलं श्वेतरक्तं मण्डलं यस्यैवंभूतं सवितारं सूर्यमिव । अपरसंध्या पश्चिमसायंकालस्खयालो हितमा ईषद्रक्तं विम्बं यस्यैवंभूतं चन्द्रमसं निशानाथमिव । अनुषेति । अनुपजातमनुत्पन्नं काठिन्यं जरठता यस्मिन्नेवंभूतं कल्पतरुपलवमिव पारिजात किसलयमिव | उत्फुलं विक सितं रक्तारविन्दराशिमिव कोकनदसमूहमिव लोहिताङ्ग मङ्गलमवनिदर्शनं पृथिव्या अवलोकनं तदर्थमवती- मागतमिव । विद्रुमेत्यादि । विद्रुमाणां हेमकन्दलानां यानि किसलयदलानि तैरिव बालातपस्य नवीना • तपस्य छेदैः खण्डैरिव पद्मरागो लोहितमणिस्तस्य रश्मिभिरिव रचिता निष्पादिता अवयवा अपघना यस्य स तम् । अनेति । अनभिव्यक्तमप्रकटितं मुखपञ्चकं यस्यैवंभूतं महासेनं कार्तिकेयमिव । सुरेति । सुरवनिता देवथोषितस्तासां कराद्धस्तात्परिभ्रष्टममरपति रिन्द्रस्तस्य कुमारकं बालमिव । उत्तप्तं तापितं