पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । शून्येनासक्तबहुपुत्रिकालंकृतेन विविधनवैपलवनिवह निरन्तरनिचितेन संनिहित कनकम यहल- मुसलयुगेन विरलप्रथितसितकुसुम मिश्रदूर्वा प्रवालमालालंकृतेनावलम्बिताविकलव्याघ्रचर्मणा वन्दनमालिकान्तरालघटितघण्टागणेन द्वारेण विराजमानम्, उभयतश्च द्वारपक्षक योर्मर्यादा- निपुणेन गोमयमयीभिरुत्तान विनिहितवर। टकदन्तुराभिरन्तरान्तराबद्धविविधवर्णरागरुचि- रकूर्पास कुसुमलेशलाञ्छिताभिः कुसुम्भके सरलवाश्लेपलोहिताभिर्लेखाभिरा लिखितस्वस्तिकभ तिजालमुपरचयता हारिद्रद्रावविच्छुरणपि रिताम्बरधारिणीं भगवतीं षष्ठीं देवीं कुर्वता विक चपक्षपुटविकट शिखण्डिपृष्ठमण्डलाधिरूढमालोललोहितपटघटितपताकमुल्लसित शक्तिदण्डप्र- १४२ नेत्यर्थः । पुत्रवत्या महाद्वारोपरि मणिमयकलशारोपणं क्रियत इति राजस्थितिः । आसक्ताः संश्लिष्टा बहुपु त्रिका मषीलिखितास्ताभिरलंकृतमिति गृहविशेषणम् | यस्मिन्गृहे प्रसूतिर्जायते तद्वारदेशे क्रमव्युत्क्रमाभ्यां मषीलिखिते संश्लिष्टे पुत्रिके क्रियेते इति वृद्धाचारः | कैश्चित्तु वहुपुत्रिकानाम लक्षणफलैरुपेतो विटपीविशेषः कथ्यते । शतावरीत्यन्ये । विविधा भिन्नभिन्नजातीया ये नवपलवा नवकिसलयास्तेषां निवहः समूहस्तेन निरन्तरं नित्यं निचितेन व्याप्तेन । संनिहितानि समीपवर्तीनि कनकमयानि सुवर्णमयानि हलं सीरम्, मुसल- मयोग्रम्, युगमीशान्तवन्धनम्, एतानि यस्मिन् । अयं च राज्ञां गृहे क्वचिद्देशाचारः | हलमुसलयोर्युगमिति समासो वा । विरलेति । विरलानि मथितान्यन्तरान्तरा गुम्फितानि यानि सितकुसुमानि श्वेतपुष्पाणि तैर्मिश्रा संपृक्ता या दूर्वा बहुप्ररोहा तस्याः प्रवालमालया पलवश्रेण्यालंकृतं भूषितं तेन । अवेति । अवल म्वितम विकलं संपूर्ण व्याघ्रचर्म श्वेतपिङ्गलकृत्तिर्यस्मिंस्तत्तथा तेन | चन्दनेति । मङ्गल्यं पुष्पदाम वन्द- नमालिका | 'तोरणार्थे तु मङ्गल्यं दाम वन्दनमालिका' इत्यभिधानचिन्तामणिः | तस्या अन्तराले मध्यवि- भागे घटितो रचितो घण्टागणो यस्मिन्स तेन । पुनस्तमेव विशेषयन्नाह – उभयतश्चेति । पुरंध्रवर्गेण । 'पुरंध्री सुचरित्रा' इत्यमरः । समधिष्ठितमध्यमिति दूरेणान्वयः किं कुर्वता पुरंधिवर्गण । आलिखितो लिपीकृतः खस्तिकः प्रसिद्धो यस्मिन्नेवंभूतं भक्तिजालं रचनासमूहमुपरचयता कुर्वता । कयोः । द्वारपक्षकयोः । उभयत उभयपार्श्वयोः । 'पक्षद्वारं तु पक्षकम्' इति कोशः । कीदृशेन । मर्यादानिपुणेन मर्यादा स्थितिस्तत्र निपुणेनाभिज्ञेनेति पुरंध्रवर्गस्य विशेषणम् | काभिः | लेखाभिर्वर्तिभिः । अथ लेखा विशेषयन्नाह – गोमयेति । गोमयं छगणं तन्मयीभिः । उत्तानेति । उत्तानमूर्ध्वमुखं विनिहिताः स्थापिता ये वराटकाः कपर्दकास्तैर्दन्तुराभिर्विषमोन्नताभिः अन्तरान्तरा मध्येमध्य आवद्धा नियमिता विविधवर्णा नीलपीतादिधातवस्तेषां रागेण रुचिरं कूर्पासमेव कुसुमं तस्य लेशाश्छेदास्तैर्लाञ्छिताभिश्चिह्निताभिः । कुसुम्भेति । कुसुम्भं कमलोत्तरं तस्य केसरलवाः किजल्कखण्डास्तैराश्लेषः रक्ताभिः संबन्धस्तेन लोहितामी रक्ताभिः । पुनः किं कुर्वता । सृजता । हरिद्रा रजनी तस्या द्रवो रसस्तस्य विच्छुरणं प्रोक्षणं तेन पिजरितं पीतरक्ततां प्राप्तं यदम्बरं वस्त्रं तद्धारिणीं भगवतीं षष्ठीं देवीम् । पुनः किं कुर्वता । संघटयता का उसाला वकोषा ATE. anti ल