पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । द्यौरिवोदितरंविमण्डला सबालातपा मामानन्दयिष्यति देवी । कदा सर्वौषधिपिअर- जटिलकेशो निहितरक्षाद्वैतबिन्दुनि तालुनि विन्यस्तगौरसर्पपोन्मिभूतिलेशो गोरोच- नाचित्र कण्ठसूत्रप्रन्थिरुत्तानशयो दशनशून्यस्थिताननः पुत्रको जनयिष्यति मे हृदयाह्लादम् । कदा गोरोचनाकपिलद्युतिरन्तःपुरिकाकरतलपरंपरासंचार्यमाणमूर्तिर शेषर्जंनवन्दितो मङ्गल- प्रदीप इव मे शोकान्धकारमुन्मूलयिष्यति चक्षुषोः । कदा च क्षितिरेणुधूसरो मण्डयिष्यति मम हृदयेन दृष्टया च सह परिभ्रमन्भवनाङ्गणम् | कदा केसरिकिशोरक इव संजातजानु - चेङ्क्रमणावस्थ: संचरिष्यतीतस्ततः स्फटिकैंमणिभित्यन्तरितान्भवनमृगशावकाञ्जिघृक्षुः । क दोन्तःपुरनूपुरनिनादसङ्गतागृह कलहंसकाननुसरन्कैक्षान्तरप्रधीवितः कनक मे खलाघण्टिका- १२६ रिणी धरणशीला । सुतेति । सुतेन पुत्रेण सनाथः सहित उत्सङ्गः कोडो यस्याः सा । केव । द्यौरिवाका- शमिव । तां विशिनष्टि—उदितति । उदितमुदयं प्राप्तं रविमण्डलं सूर्यविम्वं यस्यां सा | सह वालात. पेन वर्तते या सा । हारिद्रवसनस्य कालेन पीतरक्तत्वाद्वालातपसाम्यम् । सूर्यविम्वपुत्रयोश्च साम्यम् | कदेति । पुत्रकः सुतो मे मम हृदयं चेतस्तस्याह्लादं प्रमोदं जनयिष्यत्युत्पादयिष्यति । सुतं विशेष- यन्नाह – सर्वेति । सर्वाश्व ता ओषधयस्ताभिः पिजराः पीतरक्ता जटिला अन्योन्यं मिलिताः केशा: कचा यस्य स तथा । निहितः स्थापितो रक्षया युतो घृतविन्दुर्यस्मिन्नेचंभूते तालुनि काकुदे विन्यस्तः स्थापितो गौरसर्षपेणोन्मिनः संयुतो भूतिलेशो भस्मकणिका यस्य स तथा । अयं बालरक्षाविधिः | गोरोचनेति । गोरोचना तया चित्रो विचित्रः कण्ठसूत्रग्रन्थिर्यस्य स तथा । अयमपि रक्षाविधिः । उत्तानेति । उत्तानमूर्ध्वमुखं शेते यः स तथा । दशनेति । दशनैः दन्तैः शून्यं रहितगेतादृशं रिंमतं विकसितमाननं मुखं यस्य स तथा । कदेति । कदा कस्मिन्काले मे मम चक्षुपोर्नत्रयोर्मङ्गलप्रदीप इव मङ्गलदीप इव शोक एवान्धकारं तिमिरमुन्मूलयिष्यति मूलतो दूरीकरिष्यति । कीदृक् | गोरोचनावत्कपिला पिङ्गला द्युतिः कान्तिर्यस्य स तथा । पुनस्तमेव विशिनष्टि - अन्त इति । अन्तःपुरे भवा अन्तःपुरिकाः पटाद्यन्तरिताः स्त्रियस्तासां करतलानि हस्ततलानि तेपां परंपरा श्रेणिस्तया संचार्यमाणा हस्ताद्धस्तं प्रति स्थाप्यमाना - मूर्तिः शरीरं यस्य स तथा । अशेषेति । अशेषैः समधैर्जनैर्वन्दितो राजपुत्रत्वान्नमस्कृतः । कदा- चेति । कदेति पूर्ववत् । क्षित्याः पृथिव्या यो रेणुलिस्तेन धूसरो मलिनो मम हृदयेन चित्तेन दृष्टया च लोचनेन सह सार्धं परिभ्रमन्नितस्ततः पर्यटन्भवनाङ्गणं गृहाङ्गणं मण्डयिष्यति भूपयिष्यति । एतेन राश- श्चित्तनेत्रयोस्तृतीय एवायं सखेति ध्वनितम् | कदेति । कदेति पूर्ववत् । इतस्ततः संचरिष्यति संचरणं करिष्यति । कइव केसरी सिंहस्तस्य किशोरकः शिशुस्तद्वदिव | संजातेति । संजाता समुत्पन्ना जातु कदाचित् चङ्क्रमणावस्था गमनयोग्यता यस्य स तथा । स्फटिकेति । स्फटिकमणीनां या भि. त्तयः कुड्यानि ताभिरन्तरितान्व्यवहितान्भवनमृगाणां गृहकुरङ्गाणां शावकान्पोतान्प्रतिबिम्बादिना दृश्य- मानमूर्तीञ्जिघृक्षुर्गृहीतुमिच्छुः | कदेति । कदा कस्मिन्काले धात्रीमुपमातरमायासयिष्यति प्रयास जन-