पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः | १२५ पपादयितुं तावत्सर्वमुपपाद्यताम् । अधिकां कुरु देवि, गुरुषु भक्तिम् । द्विगुणामुपपा- दय देवतासु पूजाम् | ऋषिजनसंपर्यासु दर्शितादरा भव । परं हि दैवतमृषयः यत्ने- नाराधिता यथासमीहितफलानां दुर्लभानामपि वराणां दातारो भवन्ति । श्रूयन्ते हि पुरा चण्डकौशिकैप्रभावाभगधेषु बृहद्रथो नाम राजा जैनाईनस्य जेतारमंतुलभुजबलमप्रति- रथं जरासन्धं नाम तनयं लेभे | दशरथश्च राजा परिणतवया विभाण्डकमहामुनिसुत- स्वर्ण्यशृङ्गस्य प्रसादान्नारायणभुजानिवाप्रतिहतानुदधीनिवाक्षोभ्यानवाप चतुरः पुत्रान् । अन्ये च राजर्षयस्तपोधनानाराध्य पुत्रदर्शनामृत स्खौंदसुखभाजो बभूवुः । अमोघफला हि महामुनिसेवा भवन्ति । अहमपि सैलु देवि, कदा समुपारूढगर्भभरालसामापाण्डुमुखी- माँसन्नपूर्णचन्द्रोदयामिव पौर्णमासीनिशां देवीं दृक्ष्यामि | कदा मे तनयजन्म महोत्सवा- नन्दनिर्भरी हरिष्यति पूर्णपात्रं परिजनः | कदा हारिद्रवसनधारिणी सुतसनाथोत्सङ्गा १३ mga त्याह - यावदिति । मानुष्यके मानुष्यजन्मनि यावदुपपादयितुं कर्तुं शक्यं स्वकृतिसाध्यं तावत्सर्वमुपपाद्यतां क्रियताम् । एतदेव दर्शयति — अधिकेति । हे देवि, हिताहितप्राप्तिपरिहारोपदेष्टारः गुरवस्तेषु पूर्वावस्थातो- sधिकामाधिक्येन भक्तिमाराध्यत्वेन ज्ञानं कुरु विधेहि | देवतासु हरिहरादिपु द्विगुणां द्विगुणितां पूजामर्चामुप- पादय निष्पादय | ऋषिजनसपर्यासु मुनिजनसेवासु दर्शितः प्रकटित आदरः सत्कारो यथा सैवंभूता भव | हि निश्चितम् | ऋषयो मुनयः परमुत्कृष्टं दैवतं भाग्यम् । एतदेव प्रपश्चयन्नाह - यत्नेति । यत्नेन प्रयत्नेन । मनः- शुद्ध्येत्यर्थः । आराधिताः प्रीणिता मुनयो यथासमीहितानि यथाभिलषितानि फलानि येष्वेवंभूतानां दुर्ल- भानामपि वराणां मार्गितानां दातारो दायका भवन्ति । अत्रार्थेऽन्यसंमतिं प्रदर्शयन्नाह - श्रूयन्ते हीति | हि निश्चितम् । श्रूयन्त आकर्ण्यन्ते | ग्रन्थान्तरेभ्य इति शेषः । मगधेषु कीकटेषु पुरा पूर्वं चण्डकौशिको मुनिस्तस्य प्रभावान्माहात्म्याहूहद्रथो राजा । नामेति कोमलामन्त्रणे | जनार्दनस्य कृष्णस्य जेतारं जयन- शीलमतुलं निरुपमं भुजवलं बाहुवलं यस्य स तमप्रतिरथं महारथं जरासन्धं नाम जरासन्धाभिधं तनयं पुत्रं ले प्राप्तवान् | दशरथेति । चकारः पूर्वोक्तसमुच्चयार्थः | दशरथो राजा परिणतं पक्कं वयो यस्यैवं- भूतः सन्विभाण्डकनामा यो महामुनिस्तस्य सुतस्पर्ध्य टङ्गस्य प्रसादान्माहात्म्यान्नारायणभुजानिव कृष्णबाहू- निवाप्रतिह्तानपराजितानुदधीनिव समुद्रानिवाक्षोभ्याननाकलनीयांश्चतुरः पुत्रानवाप प्राप्तवान् । अन्ये चेति । पूर्वोक्तव्यतिरिक्ता राजर्पयस्तपोधनांस्तपस्विन आराध्योपास्य पुत्रस्य सुतस्य यदर्शनमवलोकनं तदे वामृतं तस्यास्वाद उपभोगस्तजनितं यत्सुखं सातं तद्भाजो बभूवुर्जज्ञिरे । अत्रार्थ हेतुं प्रदर्शयन्नाह - अमो- घेति | हि निश्चितम् । अमोघं निश्चितं फलं यासां ता महामुनिसेवा महातपस्विसपर्या भवन्ति । हे देवि, खलु निश्चयेन । अहमपि कदा कस्मिन्काले देवीं त्वां द्रक्ष्यामि विलोकयिष्यामि । तामेव विशिष्ट समु पेति | समुपारूढः प्राप्तो यो गर्भो भ्रूणस्तस्य भरो भारस्तेनालसां मन्थरामा ईषत्पाण्डु शुक्लं मुखमाननं यस्याः सा ताम् | कामिव । आसन्नेति । आसन्नः समीपवर्ती पूर्णचन्द्रस्योदयो यस्यामेवंभूतां पौर्णमासी निशा मि