पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरा १२४ , ती विकारम् । अद्य तु चतुर्दशीति भगवन्तं महाकालमर्चितुमितो गतया तत्र महाभा- ने बाच्यमाने श्रुतम्—'अपुत्राणां किल न सन्ति लोकाः शुभाः | पुंनाम्नो नरकात्रा- मन इति पुत्रः' इत्येतच्छ्रुत्वा भवनमागत्य परिजनेन सशिरःप्रणाममभ्यर्थ्यमानापि नाहा- रंगभिनन्दति न भूषणपरिग्रहमाचरति, नोत्तरं प्रतिपद्यते । केवलमविरल पदुर्दिना- न्धकारितमुखी रोदिति । एतदाकर्ण्य देवः प्रमाणम्' इत्येतदभिधाय विरराम | विरत- वचनावां तम्यां भूमिपालस्तूष्णीं मुहूर्तमिव स्थित्वा दीर्घमुष्णं च निश्वस्य निजगाद - 'दे वि. किमत्र क्रियतां दैवायत्ते वस्तुनि | अलमतिमात्रं रुदितेन | नं वयमनुग्राह्याः प्रायो देवनानाम् । आत्मजपरिष्वङ्गामृतास्वादसुखस्य नूनमभाजनमस्माकं हृदयम् । अन्य- स्मिजन्मनि न कृतमवदातं कर्म । जन्मान्तरकृतं हि कर्म फलमुपनयति पुरुपस्येह उन्मनि । न हि शक्यं दैवमन्यथा कर्तुमभियुक्तेनापि | यावन्मानुष्य के शक्यमु , - तिवनी न ज्ञापितवती । तच्च कथं तत् (स) प्रदर्शित इत्याशयेनाह - अद्येति । तु पुनरर्थे । अद्य चतु- पति कृत्वा भगवन्तं माहात्म्यवन्तं महाकालमर्चितुं पूजितुमितो गृहाद्गतया तत्र महाकालप्रासादेमहा- मारने मात्र वाच्यमाने पढ्यमाने श्रुतमाकर्णितम् । किमित्याशङ्कायामाह - अपुत्राणामिति । अपुत्राणां सयजनानाम् । किलेति सत्ये | शुभा लोका देवलोका न सन्ति न विद्यन्ते । अत्रार्थे पुत्रशब्दव्युत्पत्ति अवाना--पुंनाम् इति । पुंनाम्नो नरकात्रायत इति पुत्रः । एतेन पुत्रोऽपि नरकत्रायको भवतीति अर्पितम् । इत्येतदिति | इति पूर्वक्तप्रकारेणैतच्छ्रुत्वाकर्ण्य भवनं गृहमागलैस परिजनेन परिच्छदलो- छैन नशिरःप्रणामं शिरोवनतिपूर्वकं यथा स्यात्तथाभ्यर्थ्यमानापि प्रार्थ्यमानाप्याहारं भोजनं नाभिनन्दति सनियपति | भूषणानामाभरणानां परिग्रहं स्वीकारं नाचरति न करोति । उत्तरं प्रतिवन्चो न प्रतिपद्यते । न यद्यारीत्यर्थः । तर्हि किं करोतीत्याशयेनाह — केवलेति | केवलं रोदिति रोदनमेव करोति । नान्यत्किम• पानि भावः । कीदृशी । अविरलो घनो यो बाप्पो नेत्राम्बु स एव दुर्दिनं मेघजं तमस्तेनान्धकारितं सं जातान्धकारं मुखं यस्याः सा । एतन्मदुक्तं वच आकर्ण्य श्रुत्वा देवः प्रमाणमिति देवो भवान्यदाज्ञापय पतिदेव सर्ववेदवाक्यवत्स्वीकरिष्यत इति भावः । इति पूर्वोक्तप्रकारेणाभित्रायोक्त्वा विरराम विस्ता व भय । विरतवचनायां तस्यां मकरिकायां भूमिपालो राजा मुहूर्तमिव मुहूर्तमानं तूष्णीं मौनं स्थिला । तद्- स्वतयास्थायेत्यर्थः । दीर्घ लम्वायमानमुष्णं तप्तं निश्वस्य निश्वासं मुक्त्वा निजगादाब्रवीत् | हे देवि | किमत्रेति । देवायत्ते देवाधीने वस्तुनि कृत्ये किं क्रियतां किं कर्तुं शक्यम् । अतएवांतिमात्रं रुवितेनाल- खरोदनैनालं कृतम् । प्रायो बाहुल्येन देवतानां सुराणां न वयमनुग्राह्या अनुग्रहविषयाः नूनम् अस्माकं ह चेत आत्मजस्य पुत्रस्य यः परिष्वज्ञ उपगूहनं तदेवामृतं पीयूषं तस्यास्वादमुखमुपभोगसुखं तस्याभाजनम- पारस्वलम् । अत्रार्थे हेतुमाह - अन्यस्मिन्निति । अन्यस्मिजन्मनि भवान्तरेऽवदातं कर्म शुद्धं कर्म न कृतं न विहितम् | हि निश्चये | जन्मान्तरकृतं कर्म पूर्वभवार्जितं कर्म फलं शुभाशुभरूपमुपनयति प्रापयति पुरुषस्य मनुष्यस्थात इह जन्मन्यस्मिन्भवे दैवमदृष्टमन्यथा कर्तुम निष्टफलदं दुष्टफलद्रं कर्तुगेव शक्यमगि न vazira