पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संभूनादा सेतुबन्धात्, अच्छनिर्झर जलधौत्ततारकासार्थादमृतमथनोद्यत बैकुण्ठकेयूरपत्रमक- रकोटिकपणमसृणितप्राणः सुरासुरहेलावलयितवासुकि समाकर्षणप्रारैम्भचलित चरणभरद- लितनिसेम्बक्रटकादमृतसीकरतिक्तसानोरीमन्द रात, नरनारायणचरणमुद्राङ्कितबदरिकाश्रम- - रमणीयात्कुबेरपुरसुन्दरीभूपणरवमुखर शिखरात्सप्तर्षिसंध्योपासनपूतप्रस्रवणाम्भसोवृकोदरो- इलिससांगन्धिकखण्ड सुगन्धिमण्डलौंदागन्धमादनात्, सेवा जलिकमलमुकुलैदन्तुरैः शिरोभि- प्रागेवोक्तम् । इनः सेतुबन्धविशेषणानि । कपीति | कपिवलेन वानरसैन्येन विलुप्तानि लोपं प्राप्तानि बिरला तुच्छा या लवलीनाम्नी लता वल्ली तस्याः फलानि यस्मिन्स तथा तस्मात् । उदधीति । उदधेः समुद्राद्विनिर्गता या जलदेवता जलाधिष्ठात्री तया वन्द्यमानौ नमस्क्रियमाणौ राघवस्य रामचन्द्रस्य पादौ चरण यस्मिन्स तथा तस्मात् । अचलानां पर्वतानां यः पातस्तेन दलितानि भिन्नानि यानि शङ्ख- कुलानि जलजसगृहानि तेषां शकलैः खण्डः तारकितं संजाततारकं शिलातलं यस्मिन्स तथा तस्मात् । नलेति | नलेव्युपलक्षणं नीलजाम्बवत्प्रमुखानाम् । तेन नलादीनां वानराणां यानि करतलानि तैराकलितं व्याप्तं यच्छेलसहस्रं पर्वतसहस्रं तेन संभूतान्निष्पन्नात्सेतुवन्धात्समुद्रवन्धादित्यर्थः । लङ्कायां गच्छता रामच- न्द्रेण रामुद्रबन्धनं विहितमिति लौकिकाः । अथ मन्दर विशेषणानि - अच्छमिति | अच्छं निर्मलं यन्नि- रिजलमिति निर्झगे झरस्तस्य जलं पानीयं तेन धौताः क्षालितास्तारकासार्था नक्षत्रसमूहा यस्मिन्स तथा तस्मा- त् | अमृतेति | अमृतं पीयूपं तदर्थं यन्मथनम् | समुद्रस्येति शेषः । तत्र उद्युक्तो यो वैकुण्ठः कृष्णः । स हि मधनवैलायां पुरः स्थितं मन्दरमालय स्थितः । तस्य यत्केयूरपत्रमङ्गदपत्रं तस्य या मकरकोटि- साया यत्कपणं घर्षणं तेन मसृणिताः लक्ष्णीकृता ग्रावाणः शिला यस्मिन्स तथा तस्मात् । सुरेति । सुरा देवाः, अनुरा दलाः तेईलया कीडया एकोत्साहेन वा वलयितो वलयाकारतां प्रापितो यो वासुकिर्नागराजरतस्य यत्समाकर्षणं तस्य यः प्रारम्भ उपक्रमस्तस्माच्चलितः स्वस्थानाच्युतो यश्चरणभरः पादसमूहस्तेन दलित चूर्णितो नितम्बकटको यस्मिन्स तथा तस्मात् | अमृतेति | अमृतस्य पीयूषस्य ये सीकरा: पृतस्तैः सितानि सिञ्चितानि सानूनि शिखराणि यस्य स तथा तस्मादामन्दराचलादिति प्रागेव व्याख्यातम् । अथ गन्धमादनं विशेषयन्नाह – नरेति । नरनारायणी नामार्जुनवासुदेवौ तयोर्या चरणमुद्रा पादन्यासस्तयाङ्कितश्चिह्नितो यो बदरिकाश्रमस्तेन रमणीयात्सुन्दरात् । कुवेरेति । कुबेरपुरमलकापुरी तस्याः सुन्दर्यः स्त्रियस्तासां भूपणरवेणा- गरणरान मुखराणि वाचालानि शिखराणि यस्मिन्स तथा तस्मात् । सप्तपति | राप्तपणां संध्योपास- नेन संध्यावन्दनेन पूतं पवित्रं प्रस्रवणाम्भो निर्झराम्भो यस्मिन्स तथा तस्मात् । वृकोदरेति । वृकोदरेण भीमनोइलितं छदितं सौगन्धिकखण्डं सौगन्धिकाभिधं वनं तेन सुगन्धि सुरभि मण्डलं भूमिभागो नस्य स तथा तस्मात् । अत्र कथा - पाण्डवा द्यूते जिता विन्ध्याटव प्रविष्टाः । तत्र द्रौपद्या दोहद उत्पन्नः सौगन्धिककुसुमेषु । ततो भीमसेनेन गत्वा सरस्तदध्यासीनं नागराजं जिला तत्कन्यकां चोलूप्याख्यां परिणीय सौगन्धिककुसुमानि गृहीत्वा स्वाश्रम मेवाययौ | गन्धमादनादिति प्रागेव व्याख्यातम् । अथ नृपान्विशेषय- माह - शिरोमिरिति । शिरोभिर्मस्तकैरुपलक्षिप्ताः । कीदृशैः । सेवेति । सेवायै योऽञ्जलिः स एव कमलमुकुलं