पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १११ ञ्चरणनखेमयूखग्रंथितमुकुटपत्रलताग्रन्थयो भयचकिततरलतौरदृशो भुजवलविजिताः प्रणे- सुरवनिपाः । येन चानेकैरलांशुपल्लविते व्यालम्बिमुक्तफलजालके दिग्गजेनेव कल्पतरावाक्रान्ते सिंहासने भरेण शिलीमुखव्यतिकरकम्पिता लता इव नेमुरायामिन्यः सर्वदिश: । यस्मै च मेन्ये सुरपतिरपि स्पृहयांचकार । यस्माच धवलीकृतभुवनतलः सकललोकहृदयानन्दकारी क्रौ यादिव हंसनिवहो निर्जगाम गुणगणः | यस्य चामृतामोद सुरभिपरिमलया मन्दरोर्खेत- बहुलदुग्धसिन्धुफेनलेखयेव धवलीकृतसुरासुरलोकया दशसु दिक्षु मुखरितभुवनमंभ्रम्यत कीर्त्या | यस्य चातिदुःसहप्रतापसंतापविद्यमानेव क्षणमपि न मुमोचार्तपत्रच्छायां राज- लक्ष्मीः । तथाच यस्य '” दिष्टिवृद्धिमिव शुश्राव, उपदेशमिव जग्राह, मङ्गलैमिव बहु मेने १४. , तेन दन्तुरैर्विपमैः चरणेति। तस्य राज्ञवरणौ पाहाँ तयोः नखा नखरास्तेषां मयूखाः किरणास्तैर्मथिता मुकुटे या पत्रलता तस्या ग्रन्थयो येषां ते तथा मयेति । भयेन माध्वसेन चकिता त्रस्ता तरला कम्पना तारा कनीनिका यासामेवंविधा दृशो येषां ते तथा | सुजेति । भुजवलेन वाहुबलेन विजिता निर्जिताः । अन्वयस्तु प्रागेवोक्तः। येन चेति । येन च राज्ञा दिग्गजेनेव कल्पतरी सिंहासने नृपासन आक्रान्ते सति भरेण भारेणाया- मिन्यो विस्तारवत्यः सर्वदिशो नेमुः प्रणता वभूवुः । का इव | लता इव व्रतत्य इव | कीदृश्यः | शिलीमुखा भ्रम- रास्तेषां व्यतिकरः संवन्धस्तेन कम्तिा धूताः । दिक्पक्षे शिलीमुखा वाणाः । अथ च सिंहासनविशेषणानि - अनेकेति । अनेकानि रत्नानि तेषामंशवः किरणास्तैः पलविते किसलयिते । व्यालम्बीति | व्यालम्बी- न्यालम्वमानानि मुक्ताफलानां रसोद्भवानां जालकानि समूहा यस्मिन् । यस्मै चेति । अहमिति मन्ये । यस्मै राज्ञे सुरपतिरिन्द्रोऽपि स्पृहयांचकार सस्पृहोऽभूत् । 'स्पृहेरीप्सितः' इति संप्रदानसंज्ञायां चतुर्थी । इन्द्रस्पृहणीयतामाह - यस्मादिति । यस्माद्राज्ञो गणाः शौर्यादयस्तेषां गुणः समूहो निर्जगाम बहिर्निर्ययौ । यस्मादित्यवधौ पञ्चमी । गुणान्विशिनष्टि - धवलीति | धवलीकृतं शुश्रीकृतं भुवनतलं विष्टपतलं येन स तथा । सकलेति । सकललोकानां समग्रजनानां यानि हृदयानि चेतांसि तेषामान - न्दकरी प्रमोदकृत् । कः कस्मादिव | नाम्नः पर्वतैकप्रदेशाद्धंसनिवहः सितच्छदसमूह इव | यस्येति । चः पूर्वोक्त समुच्चये । यस्य राज्ञः कीभिख्यया दशसु दिक्षु मुखरितभुवनं यथा स्यात्तथाभ्र- म्यतागम्यत | भावे रूपम् । अथ कीर्तिविशेषणानि - अमृतेनि | अमृतस्य पीयूषस्य य आमोदस्तद्व त्सुरभिः प्रकटितः प्रगटः सुगन्धिश्च परिमलो यस्याः सा तया । 'कीस: सौगन्ध्य वर्ण्यते' इति कविस- मयः । धवलीति | धवलीकृतः शुश्रीकृतः सुरासुरलोको देवदानवलोको यया सा तया | कयेव | मन्द- येति । मन्दरेण स्वर्णाद्रिणोद्धतो दुर्दान्तो यो बहुलो दृढो दुग्धसिन्धुः क्षीरसमुद्रस्तस्य फेनोऽब्धिकफस्तस्य