पृष्ठम्:करणकुतूहलम्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
करणकुतूहलम् ।

शिरोमणी-"स्पष्टोऽधिमासः पतितोप्यलब्धो यदा यदा वाऽपतितोऽपि लब्धः ॥ सैकैर्निरकैः क्रमशोऽधिमासैस्तदा दिनौघः सुधिया विधेयः॥” तैरेवाधिमासैरुपरिस्थितोंऽको युक् युतः कार्यश्चान्द्रमासो जातोऽसौ खरामैस्त्रिंशद्भि३०-र्गुणितः सन् शुक्लपक्षमादीकृत्य मासस्य गतदिनैर्युतश्चान्द्रोऽहर्गणो भवति स द्विःस्थाप्यस्ततस्रिभि ३ र्युतःस्वकीयेन रामानशैलांशेन त्र्युत्तरसप्तशतांशेन-७०३ युतस्तस्मायुगाङ्गैश्चतुःषष्टिभि६४ राप्ताऽवमानिअवमेऽप्यधिमासवत्सैकता निरेकता वा कार्या । उक्तञ्च-"अभीष्टवारार्थमहर्गणश्वेत्सैको निरेकस्तिथयोऽपि तद्वत्" इति तैरवमैरुपरिस्थितश्चान्द्रोऽहर्मणो हीनः कार्यःस च गुरुवारादिकोऽहर्गणो भवति ग्रन्थारम्भादारभ्यैते भूदिना अर्कसावना इति एतावन्तःसूर्योदया जाताः । उक्तञ्च- "इनोदयद्वयान्तरं तदेव सावनं दिनम् । तदेव मेदिनीदिनं भवा- सरस्तु भन्नम' इत्यहर्गणसिद्धिः।अथोदाहरणम्। संवत् १६७६ चैत्रादिवर्षे शाके १५४१चन्द्रे ज्येष्ठकृष्ण १४ रवौ घटयादिः ५४ । २० अश्विनीनक्षत्रं घट्यादिः २७।२६ सौभाग्यो योगो घट्यादिः ४४।१२ अत्र दिने गतघटी १।० समये ग्रहाणां साधनं तत्र प्रथमाहर्गणार्थं यथा शकः १५४१पञ्च- दिक्चन्द्रै ११०५ र्हीनः गताब्दपिण्डेऽ ४३६ यमर्कै १२ र्गुणितः५२३२ चैत्रतो गतचान्द्रमासेन १ युतो ५२३३ऽधो ५२३३ऽस्माद्विगुणितात् १०४६६ रसाङ्गान्वितात् १० ५३२ स्वशब्देनाधः स्थिता १०५३२८ नखाङ्गै 900 र्भक्तो

CC-0. Kashmir Research Institute, Srinagar.