पृष्ठम्:करणकुतूहलम्.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (३)

अथ वर्तमानशकादारभ्याहर्गणादिसाधनमाह ।

 शकः पञ्चदिक्चन्द्रहीनोऽर्कनिघ्नो
 मधोर्यातमासान्वितोऽधो द्विनिघ्नात् ॥
 रसाङ्गान्वितात्स्वाभ्रखाङ्कांशहीना-
 च्छराङ्गैरवाप्ताधिमासैर्युगूर्ध्वः ॥२॥
 खरामाहतो याततिथ्यन्वितोऽध-
 स्त्रियुक्तात्खरामाभ्रशैलाशयुक्तात् ।
 युगाङ्कैरवाप्तावमोनस्तदूर्ध्वो
 भवेज्जीववारादिकोऽहर्गणोऽयम् ॥३॥

 यस्मिन्नभीष्टाब्दमासदिने ग्रहाणा मध्यमायं साधयितु- मिष्यते तत्तत्समयकःशकः । शकनृपगताब्दपिण्डःपञ्चदि- क्चन्द्रैःपञ्चोत्तरैरेकादशशतै ११०५ र्हीनःकार्यःयच्छेषं ते ग्रन्थारम्भस्य गताब्दाः सौरा भवन्ति स गताब्दगणोऽर्कैर्द्वादश- भिर्निघ्नो गुणितःसौरमासगणो जातः स मधोश्चैत्रादिगतमासै- र्युक्तःसएवाधो द्वितीयस्थाने धार्यस्ततोऽधःस्थितोद्वाश्यांगुणितो रसाङ्गान्वितःषट्षष्टिभि६६र्युतःस्वकीयेनानखांकांशेन नवश- तांशेन ९०० हीनः कार्यस्तस्माच्छरांकैः पञ्चषष्टिभि ६५ र्भागेऽपहृते यदाप्तं तेऽधिमासाःअनेन प्रकारेण कदाचित्पति- तोऽधिमासो न लभ्यते कदाचिदपतितोऽपि लभ्यते तत्र स्पष्टो धिमासोऽधिमासःस्फुटः स्यादित्यनेन तन्निश्चयं कृत्वा तथा गताधिमासेषु सैकता निरेकता वा कार्या ! उक्तञ्च सिद्धान्त-CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri