पृष्ठम्:करणकुतूहलम्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
गणककुमुदकौमुदीटीकासमेतम् ।

लब्धेनो ११परिस्थाङ्कः १०५३२ ऊनः१०५२१शराङ्गैः ६५भक्ताल्लब्धाधिमासै १६१रुपरिष्ठो ५२३३ युतश्चान्द्रमा- सगणो जातो ५३९४ऽयं खरामै ३०र्गुणितः १६१८२० शुक्लप्रतिपदादिगणनया गततिथिभि २८ र्युत १६१८४८ श्चान्द्रगणोऽयमध १६१८४८ स्त्रिभि ३ र्युतः १६१८५१ स्वशब्देनाधो १६१८५१ रामाभ्रशैलै ७०३र्भक्तो लब्धेनो २३०परिष्ठो१६१८५१युतो १६२०८१युगाङ्गै ६४ र्भक्तो लब्धावमै २५३२ रुपरिष्ठो १६१८४८ हीनो जातोऽ- हर्गणः १५९३१६सप्तभक्ते शेषं ३ बृहस्पतितो गणनाकृते शनिर्गत उदये रविः॥ ३ ॥ अथ ग्रन्थारम्भे चैत्रादिशुक्लप्रतिपदि सूर्योदयिका मध्यमास्तेषां ग्रहाणां ध्रुवका अब्दबीजयुताः क्षेपकत्वेन कृतास्तानाह- दिशोगोयमा विश्वतुल्याःखमर्के विधौ खेन्दवोऽङ्का- श्विनः पञ्चखाक्षाः । विधूच्चेऽब्धयोऽक्षेन्दवोऽर्का- नवाक्षा नवात्यष्टितत्वा ग्रहाश्चन्द्रपाते ॥४॥ कुजेऽश्वाः कुदस्रा जिनाः क्वक्षितुल्या बुधे द्वौ कुने- त्राणि शकाः खरामाः । गुरौ क्षेपको द्वौ कृताः खड्कुबाणाः सितेऽष्टौ धृतिर्मार्गणाः पञ्चबाणाः॥५॥ युगान्यग्नयख्यब्धयः शैलचन्द्राः शनौ चेति राश्यादिना क्षेपकेण । धुपिण्डोत्थखेटो युतः स्वेन मध्यो भवेदुद्गमेऽर्कस्य लङ्कानगर्याम् ॥६॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri