पृष्ठम्:करणकुतूहलम्.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
करणकुतूहलम्।

सूर्यादीनां राश्यादिक्षेपकाः।

सूर्यः चन्द्रः विधूच्चम् चन्द्रपातः भौमः बुधः गुरुः शुक्रः शनिः

१० १०             

२९ २९  १५  १७  २१   १४ १८  

१३   १२  २५  २४  १४    ४३

०० ५०  ५९    २१  ३० ५१ ५५ १७

 द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥

 अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् ।  अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो  धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे  दांग ६४ लब्धेन कलादिनोनाः ॥७॥  अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते-

CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri