पृष्ठम्:करणकुतूहलम्.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
गणककुमुदकौमुदीटीकासमेतम् ।

नांशादिनोपरिस्थितोऽहर्गणो हीनोंऽशादयो रविबुध- शुक्रा भवन्ति अत्र भाज्यभाजकयोर्ग्रहानयनेऽपवर्त्यमध्ये बीजान्यन्तर्भूतान्युक्तानि तानि सान्तरितानि तन्निरा- सार्थङ्करणगताब्दपिण्डाद्वेदाङ्गै ६४ श्चतुःषष्टिभिर्भागे हृते यदाप्तं कलादिकं तेन हीनाः कार्याः। यथाहर्गणः१५९३१६ अयं द्वितीयस्थाने स्थितः १५९३१६ एकत्रस्थो विश्व१३ र्गुणित २०७११०८ स्त्रिखाङ्कै ९०३ र्भक्तो लब्धमंशाः २२९३ शेषं ५२९ षष्टिगुणः ३१७४० भाजकेन ९०३ भक्ते लब्धाः कलाः ३५ शेषं १३५ षष्टिगुणं ८१०० भाजकेन भक्ते लब्धाः कलाः८ कलाद्यानयनमेव परिपाटी सर्वत्र ज्ञेया। अंशाद्येना २२९३।३५।८ हर्गणो १५९३१६ हीनः १५७०२३ अत एकमंशं गृहीत्वा षष्टिविकलाः कृत्वा ३५ पातिते शेषं २५ अस्यैकं गृहीत्वा षष्टिविकलाः कृत्वा विकलाः ८ शुद्धे शेषम् ५२ एवमंशादिः १५७०२२।२४।५२ ॥  अथाब्दबीजसंस्कारः-गताब्दा ४३६ वेदाङ्गै ६४ र्भक्ता लब्धेन कलादिना ६।४८ पूर्वागतकलासु हीनाः१५७०२२ ।१८।४त्रिंशद्भक्तं लब्धं५२३४शेषमंशाः २ राशीनां५२३४ द्वादशभक्ते लब्धं भगणः ४३६ शेषं द्वौ राशी २ एवं भग- णादिः अगणः ४३६ राश्यादिः २।२।१८।४स्वक्षेपेण राश्या- दिना १०।२९।१३।० युतः १२।३१।३१।४ भागानां त्रिंशद्भक्ते लब्धेनो १ परि राशिस्थाने युतः १३ द्वादशभक्तः

CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri