पृष्ठम्:करणकुतूहलम्.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
करणकुतूहलम् ।

लब्धेन भगणस्थाने युतः-४३७ एवं राश्यादिः १।१।३१।४ लङ्कायां सूर्योदये मध्यमो रविरयमेव बुधः शुक्रश्च ज्ञेयः एषा परिपाटी सर्वत्र ग्रहानयने ज्ञेया। अथ गणितोपयुक्तमङ्कशोधनं यथोक्तं बीजदत्तैः-"गुण्ये गुणे नवहृते परिशेषघाते नन्दै ९ र्ह्रते भवति यः परिशेषराशिः ॥ घातेन गुण्यगुणयोर्नवशेषितेन साम्येन तस्य निगदेद्गणितस्य शुद्धिम्" ॥ १ ॥ यथा गुण्यो:- हर्गणः १५९३१६ नवभक्ते शेष ७ गुणकः १३ नवभक्ते शेषम् ४ उभयोः शेषयोः ७।४ हतिः-नवहृतः शेषम् १ अथ गुणिताङ्कः २०७११०८ नवभक्ते शेषम् १ उभयोः साम्ये गुणितोऽङ्कः २०७११०८ शुद्ध एवं सर्वत्र अथ भागहार- शोधनं पाटीगणिते प्रोक्तं हाराप्त्या नवशेषस्तयत्तेनाढ्यशेषनव- शेषः । भाज्याङ्को नवशेषस्तुल्यः स्यात्तदा शुद्धः” इति । भाज्ये नवभिर्ह्रते यच्छिष्टं तदेवाप्तिः भाजकयोर्नवभिः शेषितयोर्मिथो वधेन युक्तस्य शेषस्य नवभागे शेषे तत्तुल्यं स्यात्तदावाप्तञ्च शेषशुद्धम् । यथा भाज्ये २०७११०८ नवशक्ते शेषम् १ भाजकेऽपि ९०३ नवशक्ते शेषम् ३ लब्धमपि २२९३ नवभक्ते शेषम् ७ भाजकशेषयोर्धा; ते २१ शेषम् ५२९ युतम् ५५० नवभक्तं शेष, पूर्वशेषेण १ तुल्यं ततो लब्धम् २२९३ शेषञ्च ५२९ शुद्धमेव सर्वत्रापि प्रायशःसूर्यभगणानां गताब्दानां च साम्यं कदाचिदनन्तरम् ॥ ७ ॥

CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri