पृष्ठम्:करणकुतूहलम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (७३) श्चात्र च्छादकार्द्धसूत्रेणेति नोक्तं भूक्षयैवोक्तं तस्मात्सूर्यग्रहणे सम्मीलनोन्मीलनयोरभावो ज्ञेयः । कदाचित्स्वल्पान्तरमुच्यते तथापि बिम्बयोग एव भवति तत् खच्छन्नम्, उभयोश्छाद्य- च्छादकयोर्बिम्बसाम्यात् । अथेष्टयासमोक्षग्रासः ॥ मार्गेति । कश्चित्पृच्छति स्पर्शकालादनन्तरमभीष्टकालगते मोक्षकाला- त्पूर्व वाभीष्टकाले कियान्यासस्तदा ग्रासमार्गरेखा मोक्षमा- र्गैरेखाङ्गुलैः परिमीय तैर्मार्गाङ्गुलैरिष्टकालं गुणयेत्, ततः क्रमेण स्पर्शस्थितिमोक्षस्थितिघटिकाभिर्गुणयेत् तन्मितानीष्टाङ्गुलानि तान्यङ्गुलानि यथेष्टं स्वमार्गे दद्यात्, यथेष्टग्रास इष्टस्पर्शशरा- त्स्पर्शे मार्गे मोक्षशरान्मोक्षमार्गे इष्टाङ्गुलैश्चिन्हं कृत्वा तदग्र इष्टाङ्गुलाग्रचिन्हे ग्राहकमानार्द्धेन वृत्ते यावद्राह्यमाच्छाद्यते तावदिष्टकाले ग्रहणस्य संस्थानं ज्ञेयम् । यथा स्पर्शादिष्टघटी १ स्पर्शमानाङ्गलैः १९ गुणितैः १९ स्पर्शस्थित्या ४।३८ भक्ताल्लब्धम् ४।६ इष्टाङ्गुलानि । अथ परिलेखं विना स्पर्श- मध्यमोक्षज्ञानमुच्यते-“सौम्यांशे यदि शायकोऽनलदिशि प्राच्यां शशाङ्ग्रहश्छन्नं पूर्वमथान्तकस्य दिशि तन्मुक्तिःक्रमाद्रक्ष- साम् । याम्यश्चेद्विशिखस्तदेन्द्रककुभःस्पर्शःपुरारेर्दिशि च्छन्नं सौम्यदिशीदमुक्तमनला मुक्तीरिमाः स्युः क्रमात्” इति ॥ १॥ यया ग्राह्यार्द्धम् ५|३६ मानैक्यार्द्धम् १९/४६ स्फुटं स्पर्श- वलनं सौम्यम् ८|२१|३ स्पष्टं मोक्षवलनं सौम्यम् २।८ परे CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri