पृष्ठम्:करणकुतूहलम्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(७२) करणकुतूहलम् । आद्यन्त्यबाणाग्रगते च रेखे ज्ञेयाविमौ प्रग्रहमुक्ति- मार्ग्गौ । मानान्तरार्द्धेन विलिख्य वृत्तं केन्द्रेऽथ त न्मार्गयुतद्वयेऽपि ॥२१॥ भूभार्द्धसूत्रेण विधाय वृत्ते सम्मीलनोन्मीलनके च वेद्ये । मार्गप्रमाणे विगणय्य पूर्वं मार्गाङ्गुलघ्रं स्थि- तिभक्तमिष्टम् ॥२२॥ इष्टाङ्गुलानि स्युरथ स्वमार्गे दद्यादमूनिष्टवशात्तदग्रे। वृत्ते कृते ग्राहकखण्डकेन स्यादिष्टकाले ग्रहणस्य संस्था॥२३॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबु- द्धिवल्लभे शशाङ्कपर्वसाधनम् ॥ ५॥ अथ मध्यशराग्रबिन्दोः स्पर्शाग्रपर्यन्तं रेखां लिखेत्स ग्राहकस्य ग्रहणमार्गः, यतो मध्यशराग्रचिह्नादेव मोक्षशराग्र- पर्यन्तं रेखां कुर्यात्स मोक्षमार्गः, शरत्रयं स्पर्शिनी सा रेखा धनुराकारा भवति,मानान्तरार्द्धनेति-ग्राह्यग्राहकमानयोरन्तर- स्य यदर्द्धं तत्प्रमितेन कर्काटकेन केन्द्रे वृत्तं कुर्यात्, तस्य वृत्तस्य पूर्वविहितग्रहमार्गरेखायाश्च यत्र योगस्तत्र भूच्छायामा- नार्द्धमिति कर्काटकेन वृत्तं कुर्यात्, तद्बाह्यवृत्तं यत्र स्पृशति तत्र सम्मीलनमोक्षासनम्, सम्मीलनमिति वृत्तमोक्षमार्गयोर्यत्र योगस्तत्र भूच्छायामानार्द्धमिति कर्काटकेन वृत्ते कृते तेन ग्राह्या- त्संस्पर्शात् सम्मीलनं ज्ञेयम्, स्पर्शासन्नमुन्मीलनमिति विशेषा- - CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri