पृष्ठम्:करणकुतूहलम्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (५३) ३५६।४२।२५एभिरनष्टाःस्थापिताः६६२१।२८।९ भक्ता लब्धमंशादिक्रान्तिरुत्तरा १८१३३।४५ प्रकारान्तरत्वात्स्व- ल्पान्तरम् ॥ १४ ॥ अथाक्षांशसाधनं भुजङ्गप्रयातेनाह- दशाब्ध्यन्विताऽक्षप्रभाषष्टिभागोऽक्षकर्णान्वितस्ते- न भक्ता प्रभा सा। खनन्दाहता दक्षिणाः स्युः पलां- शाः पलः संस्कृतः क्रान्तिभागैर्नतांशाः ॥१६॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुद्धिवल्लभे त्रिप्रश्नता स्फुटक्रिया ॥३॥ स्वीयदेशीयाक्षभा दशाब्धिभिर्दशाधिकचतुःशत्या ४१० युक्ता कार्या ततःषष्टिभिर्भाज्या लब्धेन स्वदेशीयोऽक्षकर्णो युक्तो भाजकः स्यात्, खनन्दैर्नवतिभिर्गुणिताक्षभा भाजकेन भक्ता लब्धेन पलांशा अक्षांशाः स्युस्ते लङ्काया उत्तरतः सदा दक्षिणा एव ते पलांशाःक्रान्तिभागैः संस्कृताः भिन्नदिक्त्वे- ऽन्तरं समदिक्त्वे योगस्ते नतांशाः स्युः, यथाक्षभा ५।३० दशाब्ध्यन्विता४१५।३० षष्टिभक्ता लब्धम् ६।५५ अक्षक- र्णेन १३।१३ युक्तम् २०।८ हरो जातः, खनन्दैः ९० गुणिता पलभा ४९५ हरेण २०१८ भक्ता लब्धमक्षांशाः २४।३५।९ दक्षिणा एभिरंशैर्ध्रुवः क्षितिजादुच्चः क्रान्तिभागा उत्तराः १८।३३।४५ भिन्नदिक्त्वादन्तरं जाताः नतांशाः ६।१।२४ अक्षांशाधिकत्वादक्षिणाः ॥ १६ ॥ इति करण कुतूहलवृत्तौ त्रिप्रश्नाध्यायः समाप्तः ॥ ३ ॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri