पृष्ठम्:करणकुतूहलम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(५२) करणकुतूहलम्। खण्डानां योगः १००२ भोग्यखण्डेन २३६ शेषांशाः ६। ३२ । ५४ गुणिताः १५४५ । २४ तिथि १५ भक्तं लब्धेन १०३ । १ पूर्वखण्डयोगः १००२ युक्तः ११०५। ५१ जाताः क्रान्तिकलाः षष्टि ६० भक्ता अंशादिः १८ । २५ । १ सायनो रविरुत्तरगोले तेनोत्तराः॥ १४ ॥ अथ खण्डकैर्विना क्रान्तिसाधनं भुजङ्गप्रयातेनाह- भुजांशोननिघ्नाः खनागेन्दवस्तन्नगाश्वांशहीनैस्त्रिवे- दाब्धिभिस्ते । कलाष्टादशोनैर्विभक्ता लवादिर्भ- । वेत्क्रान्तिरेवं विना खण्डकैर्वा ॥१५॥ खनागेन्दवोऽशीत्युत्तरशतम् १८० सायनांशग्रहस्य भुजां- शोननिघ्नाः कार्याः ग्रहस्य भुजांशैरूनाः कार्याः भुजांशैरेव गुणिताः कार्यास्ते पृथगनष्टाः स्थाप्या एकत्रतेभ्यः नगाश्वांशैः ७७सप्तसप्ततिभिः ७७ भक्तेलब्धेन रहितैरष्टादशकलोनैः १८ त्रिवेदाब्धिभिरंशैः४४३त्रिचत्वारिंशदधिकैश्चतुःशतैः ४४२। ४२ द्वितीयस्थानस्थिताः भुजांशोननिघ्नाः खनागेन्दवो भाज्या लब्धमंशादिः क्रान्तिः स्यात्, पूर्वोक्तैः क्रान्तिखण्डैर्विना क्रान्तिर्भवतीत्यर्थः, उदाहरणम्, यथा-सायनसूर्यस्य १।२१। ३२।५४ भुजांशैः ५१॥३२॥५४ खनागेन्दवः १८० ऊनाः १२८।२७।६ एते भुजांशैरेव ५१॥३२।५४गुणिताः६६२१ ।२८।९ द्विधा एकत्र सप्तसप्ततिभिः ७७ भक्ता लब्धेन ८५ ५९।३५ अष्टादशकलोनास्त्रिवेदाब्धयः ४४२।४२ हीनाः CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri