पृष्ठम्:करणकुतूहलम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम्। (५१) ( स्युः क्रान्तिखण्डानि यमांगरामाः क्वन्ध्यग्नयो गोनववाहवश्च । षडश्विनः खेषुभुवो द्विबाणा युक्ता- यनांशग्रहबाहुभागाः ॥१३॥ तिथ्युद्धृतालब्धमितानि तानि योज्यानि भोग्याहत शेषकस्य । तिथ्यंशकैः क्रान्तिकला भवन्ति- युक्तायनांशग्रहगोलदिकाः ॥१४॥ स्युः क्रान्तीति-यमाङ्गरामा द्विषष्टयधिकं शतत्रयम् ३६२ कब्ध्यग्नय एकचत्वारिंशदधिकं शतत्रयम् ३४१ गो- नवबाहवो नवनवत्यधिकशतद्वयम् २९९ षट्अश्विनः षट्- त्रिंशदधिकशतद्वयम् २३६ खेषुभुवः सार्द्धशतम् १५० द्विबाणा द्विपञ्चाशत् ५२ एतानि षट्र खण्डकानि भवन्ति, अथ यस्य ग्रहस्य क्रान्तिश्चिकीर्षिता सोऽयनांशैर्युक्तः कार्य- स्तदीयभुजस्य येशास्ते तिथ्युद्धताः पञ्चदशभिर्भक्ता लब्ध- संज्ञकानि भुक्तखण्डानि योज्यानि तेषां भुक्तखण्डानां योग इत्यर्थः, ततो भोग्यखण्डगुणितशेषांशादेस्तिथ्यंशकेन योगो योज्यस्ताः क्रान्तिकलाः स्युः, युक्तायनांशो ग्रहो यादृशे गोले दक्षिणोत्तरौ तद्वशाद्यादिक सा भवति सायनांशग्रहे दक्षिणगोले दक्षिणा क्रान्तिः, उत्तरगोलस्य उत्तराकान्तिरि- त्यर्थः; उदाहरणं यथेष्टकालिकः सूर्यः १।२१ । ३२ । ५४ अस्य भुजः १ । २१ । ३२। ५४ अस्यांशाः ५१ 3२। ५४ पञ्चदशभक्ता लब्धखण्डानि ३ एषां त्रयाण CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri