पृष्ठम्:करणकुतूहलम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१६) करणकुतूहलम्। अब्दागजाष्वै७८स्त्रिरसै३६र्विभाजिता ऋणं विलिप्तासु शशीज्ययोःक्रमात् । विश्वैः १३ खरामै३० र्द्वियमै २२ श्चखेचरैः ९ पातोच्चसाम्यास्फुजितां धनं तथा ॥१६॥ इतीह भास्करोदिते ग्रहागमे कुतूहले।विदग्धबुद्धिवल्लभे नभोगमध्यसाधनम् ॥१॥ अब्दाः करणगताब्दाः गजाश्वैरष्टसप्ततिभिः ७८ भक्ता लब्धं शशिनश्चन्द्रस्य विकलास्वर्णं स्यात् । एवं त्रिरसै- स्त्रिषष्टिभि ६३ र्लब्धं गुरोर्विकलास्वर्णम् । अथ विश्वै- स्त्रयोदशभिः १३ खरामैः ३० त्रिंशद्भिः ३० द्विय- मैर्द्वाविंशद्भिः २२ खेचरैर्नवभिः ९ लब्धं क्रमेण पातचन्द्रोच्च- बुधशुक्राणां विकलासु धनं भवेत् । करणगताब्दाः ४३६ गजाश्चैः ७८ भक्ता लब्धं विकलाश्चन्द्रस्यर्णम् ५ पुनरब्दाः ४३६ त्रिरसैः ६३ अक्ता लब्धं विकलाः ६ गुरोर्ऋणम् । अब्दाः ४३६ विश्वैर्लब्धं विकलाः ३३ पातस्य धनम् । अब्दाः ४३६ त्रिंशद्भक्तं लब्धं विकलाः १४ चन्द्रोच्चस्य धनम् अब्दाः ४३६ द्वियमैः २२ अक्ता लब्धं विकलाः १९ बुधशीघ्रोच्चस्य धनम् । अब्दाः ४३६ खेचरैः ९ भक्ता लब्धं विकलाः ४८ शुक्रशीघस्य धनम् । रविभौमशनीनां नास्तीदङ्कर्म्म । लोकैरब्दबीजत्वेन व्यवह्रियते । षट् कर्मणां नामान्युच्यन्ते देशान्तरम् १ अब्दबीजम् २ रामबीजम् ३ भांशफलम् ४ उदयान्तरम्५चरकर्म ६ तत्र देशान्तरमुक्तमब्द- बीजं तु ग्रन्थकृता क्षेपेष्वेव दत्तम् । अथ ग्रन्थारम्भतो यावत्प्र- माणं बीजं तत्पत्रे लिखितं परं स्वल्पान्तरत्वादुपेक्षितं राम- CC-O. Kashmir Research Institute, Srinagar. Digitized By eGangotri