पृष्ठम्:करणकुतूहलम्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (१७) बीजमाधुनिकगणकैरुक्तं तल्लिख्यते। 'कलाद्वयं धनं सूर्ये चन्द्रे तिथिकलाऋणम् । भौमे स्वं कलिकाशीतिर्बुधे सप्तशती धनम्॥ गुरावृणं खनन्दैका तथा शुक्रे खभानि च । शनौ धनं खनन्याश्च त्रिंशत्स्वर्णोच्चपातयोः ॥ एवं कृतेऽधुना खेटा जायन्ते च तदा ध्रुवम् । नलिकायन्त्रयोग्याश्च ग्रहणादिषु सर्वदा"॥ एतान्यपि सान्तराणि ज्ञात्वा रामचन्द्राचार्यैः कृतास्तान्यपि लिख्यन्ते- "कलाद्वयं चाथ रवौ धनं स्यादृणं च चन्द्रे कृतराम ३४ लिप्ताः । भौमेभ्रविश्वप्रमिताः १३० कलाः स्वं बुधेऽस्य शीघे धनमन्त्रषट् च ॥१॥ गुरावृणं खाङ्कशशिप्रमाणाः१९० सितस्य शीघ्रे त्रिशती ऋणं च ३०० । मन्दे च खाष्टाश्वि- २८० धनप्रमाणास्त्रिंशत्स्वमुच्चे ऋणमत्र पाते”॥ २ ॥ इत्यु- भयं यन्त्रतो ज्ञेयम् । भांशफलं चन्द्रस्यैव । उदयान्तरं रवि- चन्द्रयोरेव । चरकर्म सर्वेषाम् । उक्तं च करणप्रदीपे-'यातं च देशान्तरमाब्दकं च भुजान्तरं केऽपि वदन्ति रामम्।प्रमाणम- त्रागम एव खेटाः स्युः संस्कृतास्तैरिह कर्मयोग्याः” इति । कानिचित्कर्माणि मध्यमेषु दीयन्ते कानिचित्स्फुटेषु चरदलसं- स्कारविधिः स्फुटक्रियानन्तरं सद्भिः ॥ अत्र देशान्तराब्दबी- जरामबीजानि मध्यमेषु देयानि भांशफलं मध्यमचन्द्र एव ग्रन्थकृतोदयान्तरचरकर्मणि स्पष्टतामननूह्योक्ते तेन स्पष्टेषु दीयत इति स्वयमूह्यं किं बहुना । अथ प्रकृतमुच्यते-'अब्दा गजाश्वैः' इत्यादिकर्म देशान्तरं रामबीजं च ग्रहेषु दत्तं यन्त्रतो ज्ञेया औदयिका मध्यमाः ॥ १६ ॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri