पृष्ठम्:करणकुतूहलम्.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । ( १३९) खण्डं शरयुतं विभक्तं गत्या विधोः षष्टिगुणमित्यनेन प्रकारेण गतैष्यसाधनं कार्य गतैष्यतालक्षणं प्राग्वत् ॥ १३ ॥ अथ सर्वखण्डकेषु शुद्धेषुपातसम्भवे स्थितिसा धन- माह- तथा शरावशेषकं खनागवेदतश्च्युतम् । नवघ्नम- न्त्यखण्डहृद्दलीकृतं स्थितिस्तदा ॥१४॥ येन शरेण पातसम्भवस्तच्छेषं खनागवेदतः ४८० च्युतं संशोध्य यच्छेषं तन्नवघ्नं नव ९ गुणं कार्यमन्त्यखण्डकेन भाज्यमाप्तस्य फलस्य घट्यादिकस्यार्द्धं स्थितिः स्याद्यथा मध्याह्नात्पूर्वतः परतश्च भवति पातमध्यात्पूर्वं स्पर्शः पातम- ध्यात्पश्चान्मोक्षः ॥ १४ ॥ अथ प्रकारान्तरेण क्रान्तिसाम्ये स्थितिलक्षणमुष्णिहा छन्दसाह तल्लक्षणमलंकारचूडामणिविषयिके तथा वृंद- चूडामणो उष्णिहा छन्दःसंसृतौ स्याद्रजौ गुरुरिति वि- वेकाद्वाच्यम् । मानयोगखण्डतो यावदल्पमन्तरम् । क्रान्तिसाम्यमेव तत्तावदेव हि स्थितिः ॥१५॥ इतीह भास्करोदिते ग्रहागमे कुतूहले। विदग्धबुद्धिवल्लभे सकृच्च पातसाधनम् ॥९॥ चन्द्रसूर्ययोर्मानयोगार्द्विम्बैक्यार्द्धाद्यावत् क्रान्त्यन्तरं स्वल्पं भवति तावत् क्रान्तिसाम्यमेव ज्ञेयम् । ताव- देव तस्य पातस्य स्थितिरस्तीति ज्ञेया, अङ्गुलायविवेकार्द्धं CC-O. Kashmir Research Institute, Srinagar. Digitized by eGangotri