पृष्ठम्:करणकुतूहलम्.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१३८) करणकुतूहलम् । णिका तावदेव मध्यकालादग्रतोऽपि स्थितिर्भवति यथा २२०३ अशुद्धखण्डेन ३२९ भक्ता लब्धम् ५ । ३७ स्थितिः गतपातत्वान्मध्यकालमध्ये १६ । ५ हीने पातान्तः १० । २८ युते पातादिः १२ । ४२ उदयाद्गतघटी ३८। १९ । समये स्पर्शः, उदयाद्गतघटी ४३ । ५५ समये पातमध्य उदयाद्गतघटी ४२।३२ समये पातमोक्षः ॥११॥ अथ प्रमाणिकाद्वयेन सकलशुद्धखण्डविवक्षामाह- यदाखिलेषु खण्डकेष्विहायखण्डजातिषु । च्युते- ष्वपीह शेषकं खनागसागराधिकम् ॥ १२॥ तदा न पातसम्भवो यदास्तिसम्भवस्तदा । विशुद्ध खण्डभागतो गतैष्यकालसाधनम् ॥ १३॥ यदा पञ्चदशगुणितानां मध्ये स्वगुणकगुणितेष्वखिलेष्विह च्युतेषु शुद्धेषु सत्सु कथम्भूतेषु खण्डेप्वाद्यखण्डजातिष्वाद्य- मिति क्रमेण धनरूपेषु षट्सु च्युतेषु खण्डेष्वथवा क्रमेण रूपेषु षट्सु च्युतेषु बाणशेषं खनागसागरेभ्यो ४८० यद्यधिकं भवति तदा पातसम्भवो नास्ति यदा सर्वेषु खण्डेष्वशुद्धेषु बाणशेषकं खनागसागरेभ्यो ४८०ऽल्पं भवति तदा सम्भवोऽ- स्तिाअथैवं विधिपातसम्भवे गतगम्यकालसाधनमाह-विशुद्ध- खण्डागतः शरमध्ये यानि गुणकगुणितानि खण्डकानि शुद्धानि तेषां गुणकभागादि प्रतिखण्डानामेकीकृत्य संशुद्ध- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri