पृष्ठम्:करणकुतूहलम्.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- (१०६) करणकुतूहलम्। हश्च । प्रोक्तेष्टकालांशयुतेः कलाभिः साध्यास्तदानी दिवसा गतैष्याः॥ १४॥ रवेः सकाशात्प्राग्ग्ग्रहश्चेदधिकः प्रत्यग्दृग्ग्रह ऊनः स्यात्तदा प्रोक्तकालांशानामिष्टकालांशानां च योगः कार्यस्तस्य कला- भिर्गतगम्या दिवसाः साध्याः साध्यानन्तरकलाभिः किन्तु संयोगविषय इष्टकालांशानामधिकत्वे ये गता दिवसाः प्राप्तास्ते गम्या ज्ञेया न तु गताः गम्याश्चेद्गता इत्यर्थः । उक्तं च सिद्धान्तशिरोमणौ-"तथा यदीष्टकालांशाः प्रोक्ते- भ्योभ्यधिकास्तदा । व्यत्ययश्च गतैष्यत्वे ज्ञेयोऽह्नां सुधिया खलु” इति ॥ १४ ॥ अथ अगस्त्योदयास्तमुपजात्याह- अक्षभाष्टहतियुक्तवर्जिताः अष्टगोमितलवा गजा- द्रयः । तत्समे दिनमणौ च कुम्भभूर्याति दर्शन- मदर्शनं क्रमात् ॥ १५ ॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुद्धिवल्लभे ग्रहोदयास्त- साधनम् ॥६॥ स्वदेशाक्षभाया अष्टभि ८ र्या हतिर्गुणना तया युक्ता अष्टाधिकनवति ९८ मितांशास्तत्तुल्ये सूर्येऽगस्त्यस्योदयो भवति । अष्टाहतिप्रभाहीनाष्टसप्तत्यंशमिते रवावूनेऽगस्त्य- स्यास्तो भवति । यथा संरोह्यामक्षभा ५ । ३० अष्ट ८ गुणा ४४ ० अनेनाष्टगोमितलवाः ९८ युक्ताः १४२।० ० CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri