पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
अनन्ताचार्यकृतम्--

उपघातकान्स्वान्रश्मीन्व्यूह विगमय । तेज आत्मीयं ज्योतिःसमूह- मुपसंहर मद्दर्शनयोग्यं कुरु । अन्यत्समानम् । केन प्रकारेण पश्यसीत्यत आह-य इति । योऽसौ पूरुषः पूर्षु शेतेऽसौ पुरुषोऽसौ मण्डलान्तस्थो यः पुरुषोऽसौ तदितरप्रतीकस्थितश्च पुरुषः सोऽहमस्मि,भवामि सूर्यमण्डलादिप्रतीकस्थो मद्धृद्यन्तस्थो ज्योतीरूपश्चैक एवेति प्रकारेण ते रूपं पश्यामीत्यर्थः । एतादृशक्यज्ञानस्यैव मोक्षसाधनत्वादिति भावः । अत्रासौ च शाकटायन इति प्रातिशाख्ये न यवयोः पदान्तयोः स्वरमध्ये लोप इति प्राप्तलोपप्रतिषेधादसावसावित द्रुष्टव्यम् ॥ १६ ॥

 इदानीं मरिष्यतो ,मम वायुरध्यात्मपरिच्छेदं हित्वाऽधिदैवतात्मानमनिलं प्रविशत्विति प्रार्थयते-वायुरनिलमिति । वायुरनिलं यजुषी।ओमितिपरमाक्षरस्य योगिनामालम्बनभूतस्य परस्य ब्रह्मणः प्रणवाख्यस्यास्थूलादिगुणयुक्तस्य ब्रह्मा ऋषिश्च्छन्दो गायत्रं परमात्मा देवताशब्दब्रह्मारम्भविरामे च यागहोमादिषु शान्तिपौष्टिककर्मसु चान्येषुविनियोगोऽस्य कृतः । त्रिभिर्यज्ञान्योगी स्मारयतीत्यनुक्रमणी । हे परमात्मन्मरिष्यतो मम वायुः प्राणो वायुग्रहणं सप्तदशलिङ्गोपलक्षणार्थम् ।तथा च सदप्तशात्मकलिङ्गरूपः प्राणोऽध्यात्मपरिच्छेदं हित्वाऽधिदैवतरूपं सर्वात्मममृतं सूत्रात्मानमनिलं मुख्यप्राणं प्रतिपद्यतामिति वाक्यशेषः । वायुर्वै गौतम तत्सूत्रेण वायुना हि गौतम तत्सूत्रेणायं च लोकःपरश्च लोकः सर्वाणि च भूतानि संट्टाब्धानि भवन्तीति श्रुतेः । ज्ञानकर्मसंस्कृतं लिङ्गमुत्क्रमयत्वित्यर्थः । अथानन्तरमिदं स्थूलशरीरमग्नौहुतं सद्भस्मान्तं भस्मैवान्तो यस्य तद्भस्मान्तं भस्मावसानं भूयात्कृतप्रयोजनत्वात् । ॐप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते ॐ हे क्रतो संकल्पात्मक स्मर यन्मम स्मर्तव्यं तस्यायं कालः समुपस्थितोऽतः स्मर यस्त्वं ब्रह्मचर्ये गार्हस्थ्ये च मया परिचरितस्तत्स्मर ।तथा कृतं यन्मया बाल्यप्रभृत्यद्य यावदनुष्ठितं कर्म तच्च स्मर । क्रतोंस्मर कृतं स्मरेति पुनर्वचनमादरार्थम् । यद्वा प्रत्यक्षत एव देहस्य भस्मातत्वदर्शनाद्देहनाश च तदन्तर्गतस्य ब्रह्मणो जीववन्मरणाद्यवश्यंभाव- दित्याशङ्कायामिदमुच्यते । अत्रायम यद्यपीदं शरीरं भस्मान्तं दृश्यते तथाऽपि तदन्तर्वर्तिनः परमेश्वरस्य न मरणादिदोषप्रसङ्गः । कुतो व्यत्ययादनिलमनिलो वायुर्यदाऽमृतममृतोऽथ तदा ब्रह्मामृतमिति किं वक्तव्यं