पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यमष्यम् ।

तेन परात्मना तज्ज्ञानेनासृतं मोक्षमश्नुते । इति भिन्नक्रमेण पदयो,व्याख्यानम् ॥ १४ ॥

 एवं प्राप्ताधिकारं शिष्यं प्रति परमात्मस्वरूपं निरूप्य तत्साक्षात्कारो मोक्षसाधनमित्यतीतग्रन्थेनोक्तम् । स चेश्वरसाक्षात्कारो न श्रवणादिमात्रेण भवति । नापि मोक्षः साक्षात्कारमात्रेण किंतु भगवदनुग्रहादेव । नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैदवृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनू स्वामिति श्रुतेः । अतोऽनुष्ठितश्रवणमननादिकेनापि साक्षात्कारार्थं प्राप्तसाक्षात्कारेणापि च मोक्षार्थं यथा भगवत्प्रार्थनं कार्यं तत्प्रकारप्रदर्शनार्था हिरण्मयेन पात्रेणेत्याद्युत्तरमन्त्राः । तत्राऽऽदित्यरूपोपासनमाह-हिरण्मयेन पात्रेणेति ।अनुष्टुप् । हिरण्मयमिव हिरण्मयं ज्योतिर्मयं यत्पात्रं पिबन्ति यत्र स्थिता रश्मयो यत्र स्थितानिति पात्रं सूर्यमण्डलं तेन तेजोमयेन मण्डलेन सत्यस्याऽऽदित्यमण्डलस्थस्याविनाशिनः पुरुषोत्तमस्य श्रीभग्वतो मुखं मुखमिति सर्वविग्रहोपलक्षाम् । लीलाविग्रहस्वरूपमपिहितमाच्छादितं वर्तते यत्तन्मुखं हे पूषन्पुष्णातीति पूषा तत्संबोधनं हे भक्तपोषक परमा- मंस्त्वमपावृण्वपावृक्मनाञ्छादितं कुरु । किमर्थं, सत्यधर्माय दृष्टये ।सत्यं सत्यज्ञानानन्दात्मकं त्वदूपं धारयति हृदये चिन्तयतीति सत्यधर्मा तस्मै चतुर्थी षष्ठश्र्थे सत्यधर्मस्य मदादिमक्तजनस्य दृष्टये दर्शनीय साक्षात्काराय शिरप्रेक्षणेऽस्माद्भावे क्तिन्प्रत्ययः । वयभ्रस्जसृजमृजयजराज-भाजच्छश ष इति शस्य षत्वं ष्टुना ष्टुरिति ष्टुत्वमित्यृषिप्रार्थनम् ॥१५॥

 एतदेव स्पष्टीकृत्य इषिर्याचते-पूषन्निति । उष्णिग्यजुरन्तोष्णि- क्त्रिपदाऽन्त्यो द्वादशवः इति वचनात् । हे पूषन्हे एकर्षे । एकश्चासावृषिश्चैकर्षिः । ऋष ज्ञाचे हे मुख्यज्ञान हे यम यमयति सर्वमिति यमो योऽन्तरो यमयतीति श्रुतेः । हे सूर्य । सूरिभिर्ज्ञेयत्वास सूर्यः सूरिशब्दात्तद्धितो यत् । यस्येति चेतीकारलोपः । हे प्राजापत्य । प्रजानां पतिः प्रजापतिर्हिरण्यगर्भस्तस्य वेदोपदेट्टत्वेन प्रिय यो ब्रह्माणं विदधाति पूर्वं तस्मै वेदांश्च प्रहिणोति सवनिति श्वेताश्वश्रुतेः । मदीयान्नश्मीन्पकाशयन्व्यूह तेजःसमूहं च स्वरूपं बाह्यं च मदीयं ज्ञानं विस्तारयेत्यर्थः।तथा यत्ते रूपं कल्याणतमं परममङ्गलं मङ्गलानां च मङ्गलमिति स्मृतेरस्ति तत्ते तव प्रसादादहं पश्यामि । यद्वा हे पूषन्नेकर्षे यम सूर्य प्राजापत्य प्रजापतेर्धर्मस्थापत्य नरनारायणात्मन्नश्मीन्मक्षुष