पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अनन्ताचार्यकृतम्--

निपातो बह्वर्थों बहुतरं तमो विशन्ति । यद्वा व्याकृताव्याकृतोपास नयोः समुच्चिचीवया प्रत्येकं निन्दोच्यते तेन यथासंभवनं संभूतिः कार्यस्योत्पत्तिस्तस्या अन्या असंभूतिः प्रकृतिः कारणमव्याकृताख्यं तामसंभूतिमव्याकृताख्यं प्रकृतिकारणम् । अविद्याकामकर्मबीजभूतामदर्शनात्मिकं य उपासते ते तदनुरूपमेवान्धं तमः प्रविशन्ति संसारमेव.प्राप्नुवन्ति । ये तु संभूत्या कार्यबह्मणि हिरण्यगर्मादावेव रतास्ते ततस्त- स्मादपि भूयो बहुतरमेव तमः प्रविशन्ति ॥ १२ ॥

 अथॉभयोरुपासनयोः समुच्चयकारणमवयवतः फलभेदमाह-अन्य-देवेति । संभवात्संभूतेः कार्यबह्मोपासनादन्यदेव पृथगेवाणिमाद्यैश्वर्य लक्षणं फलमाहुः कथयन्ति धीराः। तथाऽसंभवादसंभूतेरव्याकृतोपासनादन्यदेव फलमुक्तमन्धं तमः प्रविशन्तीत्याहुः । केशोऽधिकतरस्तेषामव्यक्तासक्तचेतसामिति भगवदुक्तेः । इत्येवंविधं धीराणां धीमतां वचः शुश्रुम वयं श्रुतवन्तो ये धीरा नोऽस्माकं तत्पूर्वं संभूत्यस भूत्यु: पासनफलं विचचक्षरे व्याख्यातवन्तः ॥ १३ ॥

उक्तं सर्वमुपसंहरति-संभूतं चेति । संभूतिं सकलजगत्संभवैकहेतुं परब्रह्म विनाशं विनाशोऽस्यास्तीति विनाशम् । अर्शआदिभ्योऽजित्यच्प्रत्ययः । विनाशधर्मकं शरीरादिसंसार तदुमयं शरीरिशरीररूपं द्वयं यो योगी सहैकीभूतं वेद जानाति । नित्यानित्यं वस्तु विवेचयतीत्यर्थः ।देहभिन्नोऽहं देहीवाऽऽसं कर्मनिमित्तमिति ज्ञात्वा शरीरेण ज्ञानोत्पत्तिकराणि निष्कामकर्माणि कृत्वेश्वरेऽर्पयतीति भावः । स ज्ञानी विनाशेन विनाशवता शरीरेण सात्त्विककमनुष्ठानद्वारा मृत्युं तीर्त्वाऽन्त्ः- करणशुद्धिं संपाद्य संभूत्याऽऽत्मज्ञानेनामृतत्वमश्नुते मुक्तिं प्राप्नोति ।यद्वाऽस्या अर्थान्तरम् । यथा संभूत्यसंभूत्युपासनयोरेकपुरुषार्थत्वात्समुच्चय एवं युक्त इत्याह-संभूतिं चेति । अत्र विनाशं विनाशेनेतिशब्दद्वयेऽवर्णलोपो द्रष्टव्यः पृषोदरादित्वात्साधुरन्यदाहरसंभवादिति प्रक- रणात् । संभूतिं विनाशं च व्याकृताव्याकृतोपासनद्वयं यः सह वेदोभयमुपास्त इत्यर्थः । स योग्यविनाशेनाव्याकृतोपासनेन मृत्युमनैश्वर्यमधर्म- कामादिदोषजातं च तीर्त्वाऽतिक्रम्य संभूत्या हिरण्यगर्भोपासननामृतं प्रकृतिलक्षणमश्नुते प्राप्नोति । यद्वा संभूत्या संभवतीति संभृतिर्हिरण्यगर्भादिदेवता तया संभूत्या संभूत्युपासनया मृत्युमन्तःकरणमलादिरूपं तीर्त्वाऽतिक्रम्याविनाशेन विनाश उपलक्षणमुत्पत्तिविनाशादिदोषरहि-