पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यभ.ध्यम् ।

याऽन्यदेव मोक्षैकदेशफलरूपं फलमाहुरिति धीराणां वचनं शुश्रुम ये धीरा नोऽस्मान्पति तन्मोक्षसाधनं विचचक्षरे व्याचचक्षिरे तस्मादु- पपन्नः समुच्चय इति ।। १० ॥  समुच्चयमाह-विद्यामिति । विद्याऽऽत्मज्ञानमविद्या कमन्यथाज्ञा- ननिन्दनं वा चद्वयं परस्परसमुच्चयार्थं तदुभयं सह ये पुरुषार्थहेतुत्वेन यो वेद, एकेनैव पुरुषेणानुष्ठेयमिति जानाति । सोऽविद्ययेश्वरार्पणबुद्धयाऽकृताग्निहोत्रकर्मणां मृत्युं मारकमन्तःकरणमलं तत्वोऽन्तःशुद्धया कृतकृत्यो भूत्वा विद्ययाऽऽत्मज्ञानेनामृतं भावप्रधानो निर्देशः । अमृतत्वं मोक्षमश्नुते प्राप्नोति । उक्तं हि श्रीगीतायां मगवता-यत्साख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यतीति । सांख्ययोगशब्द ज्ञानकर्मपरौ ॥ ११ ॥

 उक्तमेवमुत्तरमन्त्रत्रयेण समथ्र्यते--अन्धं तम इति । येऽविद्यामुपासते तेऽन्धं तमः प्रविशन्तीत्युक्तम् । तत्राविद्यास्वरूपमुच्य- तेऽसंभूतिमिति । ये प्राणिनोऽसंभूतिं नास्ति संभूतिर्जगत उत्प- त्यादिर्यस्मात्सोऽसंभूतिस्तं संभूतेरुपलक्षणत्वात् । परमेश्वरो न जगदुत्पत्यादिकर्ताऽपि तु स्वभावत एवोत्पद्यतेऽवतिष्ठते नश्यतीत्यामा नमुपासते तेऽन्धं तमः प्रविशन्तीत्यर्थः । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्तीत्यादिश्रुतेः । यत्प्रयन्त्यभिसविशन्तीत्यादिश्रुतिविरुद्धत्वात् । असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपर-स्परसंभूतं किमन्यत्कामहेतुकम् । एतां दृष्टिमवष्टभ्य नष्टारमानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः । आसुरी योनिमा- पन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमा गतिमिति भगवदुक्तेश्च । अन्यत्पूर्ववत् । यद्वा यमनियमादिसंबन्धवा- न्विज्ञानात्मा कश्चिन्नास्ति । जलबुदबुदवज्जीवाः । मदशक्तिवद्विज्ञान- मित्यादिद्वदिनो बौद्धा अनेन निन्यन्ते । ये नरा असंभूतं न संभूतिरसंभूतिस्तां मृतस्य पुनः संभवो नास्ति । अतः शरीरान्तेऽस्माकं मुक्तिरेवेति य उपासते सिद्धान्तयन्ति तेऽन्धं तमः प्रविशन्ति । तथा य उ ये च संभूत्यामेव रताः संभवत्यस्या इति संभूतिः परदेवता तत्रैवाऽऽ- सक्ताः कर्मपराङ्मुखाः स्व बुद्धिमालिन्यमजानाना आत्मज्ञानमात्र एव रता आत्मैवास्ति नान्यत्कर्मान्यदिति कर्मकाण्डज्ञानकाण्डयोः संबन्धो नास्तीत्यभिप्रायवन्त इत्यर्थः । ते नरास्ततोऽन्धात्तमसो भूय इव इयशब्दो