पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अमन्ताचार्यकृतम्-

तस्मिन्दधात्यतो पागहोमादीनां कर्मणां परमास्पदत्वं ब्रह्मलक्षण- मित्यर्थः ॥ ४ ॥

  रहस्यं सकृदुक्तं न चित्तमारोहतीति पूर्वमन्त्रोक्तमपि पुनर्वदति- सदिति। अनुष्टुपू । तस्कृतमारमतत्त्वमेजति चलति तदैव नैजति च। स्वतो नैव बिभेति । अमयमेव सन्मूढदृष्ट्या बिभेति च यद्वैजतिरन्तर्भावितथ्यर्थः । तदेजयति दुष्टांस्तदेव नैजयति सदाचारानिति शेषः । परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय संभवामि युगे युग इति स्मृतेः । किं च तद्दरे दूरदेशेऽस्ति तदु तदेवान्तिके समीपेऽप्यस्ति सर्वगतत्वात् । यद्वा तद्दूरेऽविदुषामब्दकोट्याऽप्यप्राप्यत्वाददूर इवेत्यर्थः । तद्वन्तिके विदुषां हृद्यवभासमानत्वादन्तिक इव न केवलं दूरेऽन्तिकेऽस्ति । किंत्वस्य सर्वस्य नामरूपक्रियात्मकस्य जगतोऽन्तरभ्यन्तरे तदेवास्ति । अस्य सर्वस्य बाह्यतो बहिरपि तदु तदेवास्त्याकाशवह्यापकत्वात् । अन्तबंहिश्च तत्सर्वं व्याप्य नारायणः स्थित इति श्रुतेः।यद्वाऽस्य मन्त्रस्यार्थान्तरम् । पूर्वं कारणरूपमुक्तमिदानीं कार्यरूपमुद्दि-शति--तदिति । तदात्मतत्त्वमेजति सर्वजन्तुरूपेण स्थितं सच्चलति तदेव नेजति स्थावररूपाधस्थं न चलति तदूर आदित्यनक्षत्ररूपेण स्थितत्वात् । तदु अन्तिके धरादिरूपेण स्थितत्वात् । अस्य सर्वस्य प्राणिजातस्यान्तर्मध्येऽन्तर्यामिरूपेण स्थितं तदेव यो विज्ञाने तिष्ठन्विज्ञानादन्तरो ये विज्ञानं न वेद् यस्य विज्ञान शरीरं यो विज्ञानमन्तरो यमयतीति श्रुतेः । अस्य सर्वस्य जगतो बाह्यतस्तदु तदेव कालरूपेण विद्यमानत्वात् । अन्तर्बहिः पुरुषः कालरुप इति स्मृतेः । चेतनाचेतन रूपमनन्तं ब्रह्मवेत्यर्थः। एवमुपासतुरचिरादिमार्गेण गमनं नास्ति । इहैव ब्रह्मप्राप्तिः। न तस्य प्राणा उकामन्त्यत्रैव समवलीयन्ते । ब्रह्मैव सन्त्रमाप्येतीत्यादिश्रुतेः । तद्वन्तिक इत्यत्र उकारोऽपृक्तोऽस्यर्शादिति प्राति शाख्नयेन संधिः ॥ ५ ॥

 अथोपासनाप्रकारमाह-यस्विति ।अनुष्टुप् । यः पुनरधिकारी सर्वाणि भूतान्यव्यक्तादिस्थावरान्तानि चेतनाचेतनान्यात्मन्सप्तम्या लुगात्मन्ये वानुपश्यति । ब्रह्मण्येव सर्वाणि भूतानि स्थितानीति जानाति ।आत्मानं च सर्वभूतेष्वनुपश्यति । ततस्तस्माद्दर्शनान्न विजुगुप्सते ।जुगुप्स नाऽऽमोति मुक्तो भवत्रीत्यर्थः । उपक्रोशो जुगुप्सा थ कुत्सानिन्दा च गर्हणे । गुग्धातोर्गुप्तिज्किभ्यः सन्निति स्वार्थे सन्प्रत्ययः ।