पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यमष्यम् ।

भाय विद्यते । एवं त्वयि नान्यथेतोऽस्तीत्यादिश्रुतिभिर्बह्मज्ञानमेध मोक्षसाधनमित्युक्तम् । तद्ब्रह्म किंविधधमित्यत आह-

 अनेजदिति । त्रिष्टुपूछन्दस्यसृक् । तद्ब्रह्मानेजत् । एजृ कम्पने नैजतीत्वनेजत् । अकम्पमानोऽभयमचलदिति केच्चित्तथात्वे न मनसो जवीय इत्युत्तरविरोधोऽजरोऽमृतोऽभयो ब्रह्मेति श्रुतेश्च । एकं समाधिकरहितम् ।न तत्समश्चाभ्यधिकश्च दृश्यत इति श्वेताश्वतरोक्तेः । यद्वा सर्वभूतेषु विज्ञानघनरूपेणैकम् । एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मेतिश्रुतेः । मनसो जवीयों मनो हि वेगवत्प्रसिद्धम् ततोऽपि जीवीयो वेगवत्तरं जवोऽस्यास्तीत जववदूत्यन्तं जववदिति जवीय ईयसुनि कृते विन्मतोर्लुगिति मतुपो लुग्देहस्थस्य मनसो दूरस्थब्रह्मलोकादिसंकल्पनं क्षणमात्राद्भवतीति मनसो वेगवत्तरत्वं तस्याप्यगम्यत्वाद्बह्म मनसो जवीय इत्युपपद्यते । किंच देवा ब्रह्माद्या अप्येनद्बह्म नाऽऽप्नुवन्कात्स्न् नाजानन् । देवा द्योतमानश्चक्षुरादयोऽप्येनन्नाऽऽप्नुवन्न गोचरी कुर्व- न्तीति केचित् । तत्तु मनोगम्यत्वादेवापीह स्थितम् । पूर्वं सर्वजगत्का. रणम् । यतो वा इमानि भूतानि जायन्त इति श्रुतेः । अर्षत झष गती, अर्पतीत्यर्षज्ज्ञानस्वरूपं सत्यं ज्ञान मनन्तं ब्रह्मति श्रुतेः। किंच लोकवि- लक्षणं लक्षणान्तरमाह-तिष्ठदिति । तिष्ठतीति तिष्ठत्स्वस्थाने स्थितमपि सर्वगतत्वाद्धावतो द्रुतं गच्छतोऽन्यान्मनआदीनत्येर तिक्रम्य तिष्ठत्यचिन्त्यशक्तिकमित्यर्थः । किंच मातरिश्वा मातर्यन्तरिक्षे वयति वर्धत इति मातरिश्वा वायुः । दुओश्चि गतिवृद्धयोरितिधातुः । तस्मि- न्ब्रह्मण्यपः कर्माणि दधाति धारयति । अप इति कर्मनाम कार्यकारण- जातानि यस्मिन्नोतानि प्रोतानि यश्च सूत्रसंज्ञः सवस्य जगतो विधार- यिता सर्वप्राणभृञ्चष्टकः सोऽपि वायुः प्राणिनां चेष्टालक्षणानि कर्माणि तस्मिन्ब्रह्मणि स्वाधिष्ठाने सति दधाति सर्वचेष्टको वायुस्तस्यापि चेत- यितु ब्रह्मेत्यर्थः । भाषाऽस्माद्वातः पवत इत्यादिश्रुतेः । यद्वा मातरिश्वा वायुरपः कर्माण्याप्यन्ते प्राप्यन्ते सुखदुःखानि याभिस्ता अपः कर्माणि। आप्नोतेह्रस्वश्चति क्विप् धातोर्हस्वश्च । तानि कर्माणि यज्ञहोमादीनि यस्मिन्दधाति स्थापयति । सर्वप्राणिकर्माणि समर्पयतीत्यर्थः । देवा गातुविदों गातुं वित्त्वा गातुमित मनसस्पत इमं नो देवदेवेषु यज्ञस्वाहा चाचि स्वाहा वातेधा इति समिष्टयजुर्मग्त्रे वायुस्थत्वोक्तेः सर्वकर्माणि तावद्वायौ स्थाप्यन्ते समष्टिव्यष्टिरूपोऽसौ वायुरपि तानि सर्वाणि