पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अनन्ताचार्यकृतम्-

इदानीं चित्तशुद्धयर्थं विहितमवश्यमनुष्यमित्याह-कुर्वन्नेवेति । कर्माण्यग्निहोत्रादीनि निष्कामाणि मुक्तिहेतुकानि कुर्वन्नेवेह लोके शतं समाः शतवर्षपर्यन्तं जिजीविषेत् । पुरुषव्यत्ययः प्रकरणात् । त्वं जिजीविषेर्जीवितुमिच्छेः । भवाञ्जिजीविषेदिति वा । पुरुषायुषस्य शतवर्षमितत्वाच्छतग्रहणं कालाध्वनोरत्यन्तसंयोग इति द्वितीया । यावच्छक्ति कर्तव्यं न कदाऽपि त्याज्यामिति । कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणीति । ब्रह्मण्याधाय कर्माणि सङ्ग त्यक्त्वा मनीषिणः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसेति भगवद्वचनात् । त्वयति विभक्तिव्यत्ययस्तवैवं कर्मकुर्वतो जिजीविषतो मुक्तिरस्तीति शेषः । इतः प्रकारादन्यथा प्रकारान्तरेण मुक्तिर्नास्तीत्ययमभिप्रायः स्वर्गादिप्राप्तौ यथा नानोपायाः सन्ति न तथा मुक्तावत्यर्थः। ब्रह्मार्पणबुद्धया कृतकर्मणा शुद्धान्तःकरणस्यैवमुक्तिरिति भावः । ननु कर्मणोऽवश्यं फलेन भाव्यं कथं मुक्तिरित्याह--- न कर्मेति । मुक्त्यर्थं क्रियमाणं कर्म नरे मनुष्ये त्वयि न लिप्यते न बध्यते । स्वोचितेनासंकल्पितफलेन कर्मणा भगवन्तमाराधयन्तं नरमपि त्वां न प्रागुत्तरकर्म बाधत इत्यर्थः । मुक्तिकारणान्तःकरणशुद्धयापाद- कत्वेनोपक्षीणशक्तित्वात् । उक्तं हि द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तौ च विभापित इति ॥ २॥

 अथ काम्यपरान्निन्दति-असुर्या इति । ये के च ये केचिज्जना आत्महन आत्मानं घ्नन्ति संसारे संबन्धयन्तीत्यात्मनोऽविद्वांसः काम्यकर्मपरा आत्महन्तारस्ते प्रेत्य सृत्वा ताल्लोकानभिगछन्ति । अभिराभिमुख्ये ते के ये लोका असुर्या असुराणामिमेऽसुर्या असुषु प्राणेष्वेव रमन्त इत्यसुराः प्राणपोषणमात्रपरा अज्ञानिनः केवलविषयासक्तास्तैः प्राप्या असुयः। कीदृशा अन्धेन तमसाऽज्ञानात्मकेन तमसाऽऽवृता आच्छादिता अज्ञानाधिक्यकारिणोऽनात्मज्ञाः पुनः पुनर्जायन्ते म्रियन्ते चैत्यर्थः । उक्त हि भगवता श्रीगीतायाम-कर्मजै बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयमिति । अनेकचितविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचाविति । तस्माद्यथायोगं वर्णाश्रमविहितकर्मणा भगवन्तमाराधयं.स्तत्प्रसादेन निवृत्तस्वान्तःकलुषो जातवैराग्य आत्मविन्मुक्तो भवतीति अघ्रङ्ककार्थः ॥ ३ ॥ ..

 ब्रह्मविदाप्नोति पर तमेवं विद्वांनसुत इह भवति नान्यः पन्था अय-