पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यमष्यम् ।

थो म पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यतीतिभगवद्वचनसमानार्थक मन्त्रोऽयम् ॥ ६ ॥

 इममेवार्थं द्वितीयो मन्त्रो वदतीत्याह-यस्मिन्निति । अनुष्टुप् । यस्मिन्नवस्थाविशेषे विजानतः सर्वाणि भूतान्यात्मनि सन्ति । आत्मा च सर्वभूतेष्वस्तीति विशेषेण ज्ञानवतः पुरुषस्य सर्वस्य खल्विदं ब्रह्मोत्यादिवाक्यार्थविचारेण सर्वाणि भूतान्यात्मैवाभूत , भवन्ति सर्वभूतेष्ववस्थित आत्मैक एवेति ज्ञानं भवति । सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तत इति भगवदुक्तेः । तत्रावस्थाविशेष एकत्वमात्मैकत्वमनुपश्यतस्तस्य को मोहः कः शोकश्चाविद्याकार्ययोः शोकमोहयोः सर्वथाऽसं- मवासकारणकस्य संसारस्यात्यन्तमुच्छेद इति भावः । भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्द्दष्टे परावरइति श्रुतेः ॥ ७ ॥

 एवंभूतात्मज्ञानिनः फलमाह–स इति । जगती । योऽधिकारी पूर्वो क्तप्रकारेणाऽऽत्मानं पश्यति स ईदृशमात्मानं पर्यगात्प्राप्नोति । छन्दसि लुङ्ललिट इति सूत्राद्वर्तमाने लुङ् । कीदृशं शुक्र शुक्लं शुद्धं रलयोरभेदाद्विज्ञानानन्दस्वभावम् । अकायं न विद्यते भोगार्थं कायः शरीरं यस्य सः । तमकायत्वादेवाव्रणमच्छिद्रं पूर्णमित्यर्थः । अस्राविरं न विद्यन्त स्रावाः शिरा यस्य सोऽस्त्राविरस्तम् । अकायमित्यनेन लिङ्गश:रीरनिषेधः । अस्राविरमिति स्त्रावोपलक्षितधातुमयस्थूलशरीरनिषेध इत्यपुनरुक्तिः । अत्रैव हेतुगर्भविशेषणमाह-शुद्धमनुपहतं सत्त्वरजस्तमोभिः । एतदेव स्पष्टयति-अपापविद्धं न पापैर्विद्धं क्लेशकर्मविपाकाशयैरस्पृष्टमीहशमात्मानं ज्ञानी पर्यगादित्यन्वयः । कायादिरहितोऽपि परमात्मा जगत्सर्जनादि करोत्यचिन्त्यशक्तित्वादित्याह-कविरिति । ज्ञानी यं पर्येति स आत्मा शाश्वतीभ्यः समाभ्यः शाश्वतीषु समासु विभक्तिव्यत्ययः । यथातथ्यतो यथातथामावो यथातथ्यं याथार्यं तेन यथार्थस्वरूपानर्थान्पदार्थान्व्यदधाद्विदधाति । कीदृशः स कविः क्रान्तदर्शी सर्वज्ञो मनीषी मेधावी ज्ञानस्वरूपः परिभूः परिभवति सर्वं वशी करोतीति परिभूः । स्वयंभूः स्वयमेवान्यवनपेक्ष्य भवतीति स्वयंभूः स्वतन्त्रः। कविरित्युत्तरार्धमुपासितुः फलकथनपरमिति केचिद्वयाचक्षते तत्यक्रममङ्गापेक्ष्यम् ॥ ८॥