पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यभाष्यम् ।

एवं यथोक्तोपासनं कुर्वनुपासकः स्वदेहस्यान्तकाले प्राप्त आत्म- नोऽमृतत्वप्राप्तिद्वारभूतमादित्यं याचते-हिरण्मयेन पात्रेणेति । आदित्यदेवत्याऽनुष्टुब्हे पूषन्हे सूर्यास्मत्पोषक हिरण्मयेन ज्योतिर्मयेन पात्रेणाऽऽधारभूतेन सत्यस्याऽऽदित्यमण्डलस्थस्य ब्रह्मणोऽपिहितं मुखं द्वारमपिहितम् । हिरण्मयेन पात्रेण द्वारस्यापिधानं कृतम् । अतस्तत्त्वं पूषन्नपावृणु पूर्षस्तत्पिधानं त्वमपावृण्वपगमय । सत्यधमय सत्यस्य तवोपासनादहमपि सत्यधर्मो जातः । सत्य धर्मो यस्य स सत्यधर्मा तस्मै सत्यधर्माय मह्यं तदपावृणु । यद्वा व्यत्ययः । सत्यधर्माय सत्यधर्मस्य तदृष्टये ॥ १५ ॥

पूषन्नेकर्ष इति । सूर्यदेवत्या त्रिष्टुप्पोषणात्पूषा रविस्तरसंबोधनं हे एकर्षे त्वया सर्वस्य संयमनाद्यमो हे यम सूर्य सुष्टवीरणात्सूर्यस्तत्संबोधनं प्रजापतेरपत्यं प्राजापत्यस्तत्संबोधनं हे प्राजापत्य । एवं संस्तूय प्रार्थयते-व्यूह रश्मीनिति। रश्मीन्व्यूह विगमय समूह तेजस्तेजस्तापकं यज्ज्योतिस्तज्ज्यो- तिस्तत्समूहमेकी कुरु। यत्ते रूपं कल्याणतमं तत्ते पश्यामि । ते तव यत्कल्याणतम मङ्गलतमं रूपम् । तत्ते तव प्रसादात्तद्रूपमहं पश्यामि । किंच योऽसावसौ पुरुषः सोऽहमस्मि । योऽसौ मण्डलस्थो व्याकृतवयवो यः पुरुषः पुरुषा आहुः पूर्णत्वाद्वा पुरुषः सोऽहमस्मीत्यादिप्यमेकीकृत्य पश्यामीति ॥ १६ ॥

एवं ब्रह्मोपासकस्य योगिनः शरीरपातोत्तरकालं शरीरं यद्भवति तदाह-- | वायुरनिलमिति । लिङ्गोक्तदेवत्यं यजुर्वायुः प्राणोऽनिलं सूर्यात्मृतमधिदैवतं स्वप्रकृतिं हिरण्यगर्भाख्यं प्राणं प्रतिपद्यते । अथानन्तरमिदं प्रतीयमानं शरीरमग्नौ हुतं भस्मान्तं भवति । कृतप्रयोजनत्वात् । इदानीं योगिनो बलभूतं प्रभूतं सर्ववेदसारं सर्ववेदमयअक्षरं कथयते-ओमिति । अवतेराप्नोतर्वा । ओमिति परमाक्षरस्य योगिनो बलभूतस्य परस्य ब्रह्मणः प्रणवाक्यस्य स्थूलादिगुणयुक्तस्य .. बह्मा ऋषि- श्छन्दो गायत्रं परमात्मा देवता । शंब्दब्रह्मारम्भ : विनियोगः । अपि च यागहोमादिषु शान्तिपौष्टिककर्मसु चान्येष्वपि काम्यनैमित्तिकादिष्वपि सर्वेष्वस्योंकारस्य विनियोगः । ओमिति परब्रह्मणो नामनिर्देशः । ओं तद्ब्रह्मेत्यादिश्रुतेः । ब्रह्मविष्णुशिवपरब्रह्मात्मकोऽकारोकारमकारार्धमा- त्रत्माकोऽयमोंकार एवान्त्यकाल उत्तारक इति दर्शयति आत्मरूप