पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
आनन्दमट्टोपाध्यायकृतम्-

 अन्धं तम इति । अन्धं तमः प्रविशन्ति के येऽसंभूतिं संभवनं संभूतिः सा ग्रंय.कार्यस्य संभूतिस्तस्य अन्याऽसंभूतिः प्रकृतिः प्रक्रियते कार्यंया प्रकृतिः कारणमव्याकृताख्यां तामसंभूतिमव्याकृताख्यां प्रकृतिकारणमविद्यां कामकर्मबीज़भूतामदर्शनात्मकमुपासते ते तदनुरूपमेव फलं तमोऽदर्शनात्मकं प्रविशन्ति । ततस्तस्मादपि भूयो बहुतरमिव तमः प्रविशन्ति । के ये उ एव संभूत्या रताः संभूत्यां कार्यब्रह्माणि हिरण्यगर्भख्य एव रतास्ते ततो भूय इव तमः प्रविशन्ति ।। १२ ।।

 अथाधुनोपासनयोः समुच्चबकरणायावयवफलभेदमाह-अन्यदे- वाऽऽहुरिति । अन्यदेव पृथगेवाऽऽहुः फलं संभवात्संभूतेः कार्यब्रह्मोपसनाणिमाद्यैश्वर्यलक्षणं फलमाहुर्वेदाः । तथाऽन्यदाहुरसंभवादसंभूतेरव्याकृतादृव्याकृतोपासनादन्यदेव फलमाहुः । अन्धं तमः प्रविशन्तिती शुश्रुम श्रुतवन्तो वयं धीरा ये नस्तद्विचचक्षिरे । य आचार्यां धराणां वचनं विचचक्षिरे व्याकृताव्याकृतोपासनाफलवचनं व्याख्यातवन्त इत्यर्थः ॥ १३ ॥

 यत एवमतः समुच्जयः संभूत्योर्युक्त एवैकपुरुषार्थत्वादित्याहसंभूतिं च विनाशं च यस्तद्वेदोभय सह विनाशेन मृत्युनाशो धर्मो यस्य स तेन विनाशधर्मणा हिरण्यगर्भपासनेनैश्वर्यप्राप्तिद्वाराऽनैश्वर्यधर्मकामादिदोषजातं च मृत्युं तीर्त्वा संभूत्या । अत्राकारलोपश्छन्दसः । असंभूत्याऽसंभूत्युपासनयाऽव्याकृतोपासनेनामृतं प्रकृतिलयलक्षणं कारणत्वप्राप्तिलक्षणममृतमश्नुत इति ततश्च पुनः संसारो भवतीत्येवमपरं विद्याकर्मसमुच्चये फलमाभिहितम् । तत्र को मोहः कः शोक एकत्वमनुपश्यत इति । स्वतन्त्रस्य सर्वकर्मसंन्यासपूर्वस्य सम्यग्ज्ञातस्य फलमभिहितमेवं द्विप्रकारः प्रवृत्तिनिवृत्तिलक्षणो वेदार्थोंsनेन प्रकाशितः । प्रवृत्तिलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य कृत्स्त्रस्य प्रकाशने प्रवग्यन्तं ब्राह्मणमुपयुक्तम् । निवृत्तिलक्षणस्य प्रकाशने विद्यामुपासत इति । तत ऊध्र्वं बृहदारण्यकं तत्रापि प्राणादिविषयोपासनं न परं किंचिदन्यन्निर्गुणब्रह्मपरमिति विभज्य दर्शनीयम्. । कार्यं सगुणब्रह्मोपासनावाक्यजातं चान्धं तमः प्रविशन्ति येऽविद्यामुपासत इत्यादिषण्मन्त्रप्रकाशितार्थस्य प्रकाशन उपयुक्तामितरसर्वं निर्गुणतत्त्वैकनिष्ठमिति । विद्यां चाविद्यां च यस्तद्वेदोभय५ सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुत इति यदुक्तं तत्र केन मार्गेणामृतत्वमश्नुत इत्यचिरादिमार्गेणेत्युच्यते ।। १४ ।।